________________
शक्यते । यदाहुर्वाचकमुख्याः
नैवाऽस्ति राजराजस्य तत्सुखं नैव देवराजस्य ।
- यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ।। (प्रशमरतिः १२८) तथाऽपि उभयमप्येतत् सम्मील्य यत् सुखं जनयति यं च प्रशमभावं समाधि चोत्पादयति तत् तु किञ्चिदनुपममेव । तथा सांसारिकं विषयसुखं सत्तासुखं पदसुखं तुं परेषामधीनं भवति । तथा केनचिद्व्ययादिनैव लभ्यते न तु एवमेव । किञ्च स्वर्गसुखं तु परोक्षं भवति मोक्षसुखं त्वत्यन्तं परोक्षं भवति, तदपेक्षया ह्येतत् समाधिसौख्यं तु सर्वथा स्वाधीनमव्ययलभ्यं च भवति । यदाहुः -
स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् ।
प्रत्यक्षं प्रशमसुखं न परवशं न व्ययप्राप्तम् ।। (प्रशमरतिः २३७) - अतः समस्तेऽपि संसारे तत्त्वार्थविचारणस्वरूपं ज्ञानं, मनोलयलक्षणो योगः, समाधिसौख्यं चेत्येतत् त्रयमेव सारम् । इति एतेष्वेव सर्वसामर्थ्येन यत्नः कार्य इत्युपदिशति शास्त्रकारमहर्षिः ॥
आशा निराशा द्वे रम्ये संसारकुलबालिके। आद्या पितृकुलोद्धारा द्वितीया कुलघातिनी ।।
९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org