________________
लेशादपि बिभ्यति । स्वार्थिनां तु स्वयमेव सारम् । ते हि स्वीयस्वार्थमेव साधयन्तो यत्र स्वस्याऽर्थः सरति तत्रैव ते प्रसरन्ति, यत्र तु न सरति ततस्ते निश्शब्दमेव निस्सरन्ति । ___ आत्मार्थिनां तु निजात्मैव सारः । यद्यपि आत्मा नैवमेव लब्धं साक्षात्कर्तुं वा शक्यः । तथाऽपि येन यत्र यतो वाऽऽमनोऽर्थः फलति तदेव तेषां लक्ष्यं ध्येयं प्राप्तव्यं च । यथा चिकोड: सदा सावधानस्तिष्ठति तथैतेऽपि सर्वदाऽऽत्मन औन्नत्ये बाधाभूतेभ्यो दोषेभ्यो भीताः सन्तः सन्ततं सावधान एव तिष्ठन्ति । ___ केषाञ्चित्तु इह जगति किमपि सारं न प्रतिभाति ऋते आलस्यात् । ते हि सर्वत्राऽऽलस्येनैव व्यवहरन्तः किमपि कार्यं शुभमशुभं वा कर्तुं नेच्छन्ति । यदि कश्चित् तेषां मुखमध्ये भोजनं क्षिपति चेत् तदपि कर्तुं तेषामिच्छा न विद्यते । एतादृशां जनानां त्वालस्यमेव सारम् ।
अथवाऽलमेतत्सर्वमालप्य पिष्टपेषणेन वा सारवस्तु विचारणस्य । प्रकृते तु ग्रन्थकार - महषिर्वदति यत् - इहाऽसारे संसारे वस्तुत्रयमेव सारम् । योगो ज्ञानं सौख्यं च । किन्तु न यादृशं तादृशं वैतत् वस्तुत्रयं सारतया संगृह्यम् । आध्यात्मिके मार्गे यो योगो यज्झानं यच्च सौख्यं वर्णितं तदेव सारतया ग्राह्यम् ।
यद्यपि योगो ज्ञानं च यदा सम्मील्य प्रवर्तेते तदैव सौख्यं लभ्येत । तत्र योगो नाम कश्चन व्यापारः । ज्ञानं तु तद्वयापारे उपयोगी बोधः । यथा कश्चन कर्मकरो निजकर्तव्यं सम्यक्अवबुध्य तत् समर्थयितुं तत्र व्यापारे स्वं यथावत् योजयति, तदा समीचीनं तत्फलं प्राप्य सौख्यं चाऽप्युत्तमं लभते । तथाऽऽध्यात्मिके मार्गेऽपि द्रष्टव्यम् । तत्र तु तत्त्वार्थविचारणं नाम यथावस्थिततत्त्वानां सम्यचिन्तनस्वरूपं ज्ञानमेव जगति श्रेष्ठम् । तथा तांस्तांस्तत्त्वार्थान् विचारयन् यदा निजं मन आत्मनि लीनं करोति-अन्यतः सर्वतो निवार्य-तदा स एव श्रेष्ठो योगो भवति । एवं च ज्ञानेन मनोलयेन च तस्य यः समाधिर्लभ्यते स एव श्रेष्ठं सुखम् ।
यतो हि तत्त्वार्थचिन्तने सर्वदा नवनवान् पदार्थान् अनुप्रेक्षमाणस्य तस्य, चिन्तकस्य यज्ज्ञानं भवति प्रकटीभवति वा न तदन्येभ्यः स्रोतेभ्यो लब्धुं शक्यते । तथा मनोलयरूपो योगो यदा सिद्धो भवति सोऽपि नाऽन्येन मार्गेण कदाचिदपि साध्यते । अथ च द्वयमप्येतत् प्रत्येकमेव तादृक् सौख्यं जनयितुं शक्तं यादृक् सौख्यं नरेन्द्र-सुरेन्द्रादिभिरपि लब्धं न
८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org