SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आख्यादः हृदयप्रदीपः मनोलयान्नाऽस्ति परो हि योगो ज्ञानं तु तत्त्वार्थविचारणाच्च । समाधिसौख्यान्न परं च सौख्यं संसारसारं त्रयमेतदेव ॥ (हृदयप्रदीपषट्त्रिंशिका - २९) अस्मिन् सर्वथाऽसारतापरिपूर्णेऽपि हि संसारे किमपि सारं परं श्रेष्ठं च विद्यते । किं तत्इत्येतस्मिन् विषये बहुभिस्तत्त्वदर्शिभिर्विद्विद्भिः कविभिः पण्डितैश्च प्रभूतं चिन्तनं कृतमस्ति । चिन्तनानुगुणं च प्रतिपादनमपि बहु प्रकटितमस्ति । किन्तु न तत्र तेषां सर्वेषामैकमत्यमस्ति । सर्वेषामपि भिन्नं भिन्नं विविधविषयकं चैव मतमस्ति । यतो यस्य चित्ते यच्छ्रेष्ठं प्रतिभाति तदेव तस्य कृते सारम् । यथोक्तम् - दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधाऽपि मधुरैव । तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥ इति । तथा च पदार्थिनां सत्तार्थिनां च पदं सत्ता चैव सारतया प्रतिभातः । ते च सर्वत्र पदस्यैवाऽन्वेषणं कुर्वाणा भ्रमन्ति । धनार्थिनां तु धनमेव सारम् । ते हि यतः कुतश्चिदपि धनं मृगयन्त्येव । तथा प्रतिष्ठार्थिनां तु प्रतिष्ठा एव श्रेष्ठा प्राणेभ्योऽपि । यशःकामिनां तु यश एव सारम् । कामिनां तू स्त्री एव सारम् । यथा च ते आहुः - - Jain Education International अस्मिन्नसारे संसारे सारं सारङ्गलोचना ॥ कलाया उपासकानां तु स्वीया कलैव सर्वेभ्योऽपि वस्तुभ्यः परा । ते हि निजाभिमतकलासु तावन्तो लीना भवन्ति यथाऽस्मिन् जगति वर्तमानं न किमपि जानते । कर्मठव्यक्तीनां तु कर्मैव सारम् । ते सर्वमप्यन्यत् सर्वथा विस्मृत्य निजं कार्यं तथा प्रकुर्वते एकनिष्ठतया यथा कदाचित् तत्फलेऽपि तेषामपेक्षा न भवति । किञ्च सुखार्थिनां तु सुखमेव सर्वत्र सारम् । यत्र तत्राऽपि ते सुखमेवाऽन्विच्छन्तो दुःख - मुनिकल्याणकीर्तिविजयः ८८ For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy