SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ दृग्गोचरीभवन्ति । ज्ञानस्य विषयीभूता पदार्थास्तु बाह्या भौतिकाश्चैव वर्तन्ते, ये न लेशमपि जीवनेन सम्बद्धाः । यावच्चाऽन्तः पर्यवेक्षणस्य साधनत्वेन ज्ञानं नोपयुज्येत तावत् यत्किमपि अन्यत्प्राप्तुं शक्यं कदाचित्, किन्तु जीवनं जीवनस्यार्थश्च वयमवश्यमेव नाशयिष्यामः । सत्यपि ज्ञाने यदि बोधो न जायेत तर्हि किं तत्र वक्तव्यम्? प्रत्यक्षेऽपि भोजने सन्निधौ च जले विद्यमानेऽपि यथा बुभुक्षायाः तृषायाश्चाऽशमनमाश्चर्यजनकं तथैव सति ज्ञाने बोधाभाव आश्चर्यं जनयति । क्रियापरिणतं ज्ञानमेव प्रकाशं प्रतनोति । एते धैर्य-बोधौदार्यादयश्च प्रकाशरूपा एव । अद्य तु वयं विद्यमानेऽपि ज्ञाने प्रकाशाद् दूरमेव वर्तामहे । असोऽधिका विडम्बना काऽस्माकम्? सर्वेऽपि समाधि स्वास्थ्यमेव चेच्छन्ति, नाऽस्त्यत्र कोऽपि विकल्पः । कस्याऽपि पर जनस्याऽन्तःकरणं स्पृश्यते चेत्, एष एव ध्वनिः श्रूयते । किन्तु , सर्वेऽपि स्वकीयानाग्रहादीन् संरक्ष्यैव परस्मात् समाधानं वाञ्छन्ति, तत्तु न समीचीनम् । यद्यपि मर्यादैव एषाऽपि मनुष्यस्य । किन्तु यदि नाम वयं 'प्रबुद्धा' इति मन्यामहे तर्खेतादृशं तुच्छं ममत्वादिकं परित्यज्यैव वर्तितव्यं येन समाधिलाभो जायेत । एवं च समाधिः सेत्स्यति, व्यवहारोऽपि पारस्परिकः समो भविष्यति । सर्वस्यामपि स्थितौ मया एव ममैव चाऽऽग्रहादिकं त्यक्तव्यं यदि स्वजीवनस्य किञ्चिदपि दायित्वमहं वहेम् स्वं प्रबुद्धं वा मन्येय । तथैव च स्वस्य परस्य च समाधेः स्वस्थताया द्वाराण्यपावरिष्यन्ति । अन्यथा स्वमुखचालनं विना भोज्यचर्वणे ईश्वरोऽपि साहाय्यं कर्तुं नाऽलं भवति । यद्यपि अस्माकमिव ईश्वरस्याऽपि मर्यादा खलु? __ अतः सर्वैरपि स्वकीया परकीया क्षमता मर्यादा च ज्ञातव्या , तदनुरूपमेव व्यवहारश्च करणीयः । यद्यस्त्यस्माकं दायित्वं कुत्रचित् कस्यचिद्वाऽस्मासु तर्हि तस्य दायित्वस्य द्वे आवश्यकेऽङ्गे स्तः स्वास्थ्यं प्रबुद्धता च । एते चाऽस्माभिः प्राप्तव्ये । प्रसन्नजीवनस्य रहस्यमप्यस्मिन्नेव निहितमस्ति । इति शम् । ८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy