________________
मुनिरनकीर्तिविजयः
अहोऽद्भुतानि
(१)
समाजसेवक:(?) जन एकः समाजसेवकः सञ्जातः । हस्तविनुतानि(खादी) वस्त्राण्येव स परिदधाति । समाजसेवकश्च यो भवति तेन परेषां दुःखानि अपनेतव्यानि भवन्ति इति मत्वा सोऽपि यथावकाशं तत्र प्रवर्तते स्म।
एकदा ग्रामे कश्चित् प्रधान आगतः । सेवाकार्यार्थं तु प्रधानेन सह सम्पर्कः कर्तव्य एवेति मत्वा सेवकः स तस्य साक्षात्कारार्थं गतवान् । तत्सार्द्ध चैका विधवा स्त्री: अप्यासीत् ।
स सेवकः प्रधानमुद्दिश्योक्तवान्- 'महाशय ! दारिद्यं सततं वर्धते । जना वृत्तिमपि न लभन्ते कथमपि।'
प्रधान उवाच-'श्रीकारस्तु तदर्थं प्रयत्नरतो वर्तत एव ।'
'अस्या विधवायाः स्त्रियः कृते तु तात्कालिकी व्यवस्था काऽपि कर्तव्या । पञ्च पुत्रा एतस्या विद्यन्ते । सर्वेऽपि बुभुक्षापीडिता जीवन्ति । स्वावासस्य भाटकमपि दातुं नैषा समर्था । गृहस्वामी तु गृहं रिक्तं कर्तुं सततं कथयति । तदर्थं च न्यायालयं गन्तुमपि स प्रवृत्तोऽस्ति । तपस्विन्येषा कुत्र गमिष्यति?'-इति समाजसेवकेन निवेदितं दुःखेन ।
प्रधानः –'सत्यमेतद् । किन्तु, एषा स्त्रीः किं तव सम्बन्धिनी? सेवकः - 'न,न ! अहं त्वेतस्या गृहस्य स्वामी अस्मि' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org