________________
(2) शौर्यम् (?)
सामान्यत: स रात्रिसमये न कदापि बहिर्निर्गच्छति । किन्तु, एकदा तथा प्रसङ्ग उपस्थितो यतो रात्रावेव तेन बहिर्गन्तव्यमभूत् ।
रात्रौ तु स्तेनादिकानां भयं प्रवर्तत एव । तस्य रात्रिगमनं ज्ञात्वा प्रातिवेश्मिका आगताः । तेषां कथनानुसारं स छुरिकाखड्गकुन्तादिशस्त्रैः सज्जीभूय निर्गतः । स्वल्पेनैव कालेन किन्तु रूदन् सन् प्रत्यागतवान् सः । लुण्टाकैः लुण्टित आसीत् सः । वस्त्रपर्यन्तं सर्वमपि लुटतं तैः ।
प्रातिवेश्मिकादिजनास्तं तादृशं प्रत्यागतं दृष्ट्वाऽऽश्चर्यमनुभूतवन्तः । कश्चित् पृष्टवानपि - 'भोः ! कथं भवान् लुण्टित: ?
स उक्तवान्- ‘दण्डप्रहारेण' ।
पुन:- अरे ! भवत्सकाशं तु छुरिकाखड्गादिशस्त्राणि आसन्नेव खलु ? तर्हि कथमेवं भूतम् ?
स उवाच- रे मूर्खशिरोमणयः ! भवन्तो न ज्ञातुं समर्था एतद् । शृण्वन्तु तावत्- - ममैकस्मिन् हस्ते खड्ग आसीत्, अपरस्मिश्च हस्ते कुन्तः । एवं चोभावपि मम हस्तौ व्यस्तावास्ताम् । अतः केन हस्तेन प्रतिकर्तव्या मया ते?
Jain Education International
९६
For Private & Personal Use Only
www.jainelibrary.org