________________
(३)
दीर्घदृष्टि: (?) जन एकः पर्यटितुं निर्गतो गृहात् । नवीनमद्भुतवेषं धृत्वा स निर्गत आसीत् । मस्तकस्थं शिरस्त्रमपि बहुमूल्यमासीत् । मित्रैः सहोपाहारगृहं गतवान् । शिरस्त्रमुत्तार्य तेन काष्ठासनोपरि स्थापितम् । चायपानं च मित्रैः सहाऽऽस्वादपूर्वकं कृतवान् ।
तावद् धूर्तस्यैकस्य दृष्टिपथमागतं तच्छिरस्त्रम् । अवसरं च लब्ध्वा त्वरितं स तदपहृत्य पलायितः । अकस्मादेवं घटितं दृष्ट्वा स खिन्नोऽभवत् । किन्तु झटित्येव तज्जनं ग्रहीतुं सज्जोऽभवत् ।धूर्तस्य पृष्ठे च स धावितवान् । मित्राण्यपि तत्सहायार्थं तमन्वसरन् । स च झटिति बहिनिर्गत उपाहारगृहात् ।
मित्राणि बहिरागत्य पश्यन्ति यत् कस्यां दिशि स गतः । किन्तु दृश्यं दृष्ट्वा तानि आश्चर्यमनुभूतवन्ति । तैः दृष्टं यद् धूर्तः स एकस्यां दिशि धावति, स जनश्च न तमनुसरति किन्तु विपरीतायामेव दिशि धावति ।
कथमेवं स करोती' ? ति आश्चर्यमासीत्तेषाम् । किन्तु कौतुकेन तान्यपि तं जनमन्वसरन् । स च धावन् स्मशानद्वारमागत्य स्थितवान् । तन्निकटं गत्वा मित्राण्यपृच्छन् भो! तं धूर्त मुक्त्वा किमर्थमत्राऽऽगतोऽसि?
स्वस्थः सन् स उक्तवान्- अरे! धावं धावं च स कुत्र कियत्पर्यन्तं वा गमिष्यति? कदाचिदपि तेन त्वत्रैवाऽऽगन्तव्यमस्ति ।अतस्तदाऽहं तं ग्रहीष्यामि !
९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org