SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तथा कुर्याद् किन्तु न सदा स तथा कृत्वा मुदमाप्नोति । तस्य स्वकीयो व्यवहारो वर्तनं वा तदनन्तरं तं पीडयत्यपि । एवमेव च यदा वारं वारं भवति तदा वयं व्याकुला भवामः, यद् ‘एतावद्भिरपि स कथं न बुध्यते?' किन्तु नैषा वस्तुस्थितिः । नैष दोषाच्छादन - प्रयत्नः, येन स यथेच्छं वर्तताम्। किन्तु तावन्मात्रेण चित्तं कलुषितं कृत्वा तस्य तिरस्कार , उपेक्षा वा नोचितप्रवृत्तिः । स स्वं प्रति सावधानं भूत्वा क्षतिमुक्तो भवितुं प्रयत्नं कुर्याद्'- इत्यस्तु अस्माकं प्रयत्नः, एतच्चाऽऽवश्यकमपि, किन्तु प्रत्येकं जनस्य स्वकीयो नियतस्वभावो भवत्येव यं च स सदाऽनुसरति। अत एव च स्वस्य मानसिकी वैचारिकी वा स्थितिः तादृशी भवति यत् शक्यमपि परिवर्तनं स इच्छन्नपि न कर्तुं प्रभवति । न किन्त्वेतावता सोऽस्माकमप्रसत्तिपात्रं भवति । एवं सत्यपि यदि वयमप्रसन्नाः स्याम तर्हि साऽस्माकमशक्ति,नतैव । एवं भवेदपि कदाचित् यत् दायित्वं प्रत्यस्माकं जागृतिरस्मानुद्विग्नान् कुर्यात् किन्तु नैष सर्वकालीन उपायः प्रश्नस्य परिस्थितेर्वा Ric निराकरणस्य । एतेन तु प्रत्युत परिस्थितिर्विकटा विषमा च जायते । ____ यदि वयं सम्पन्नाः सर्वरीत्या तहि यो न तादृशस्तदर्थं त्वस्माकमप्रसन्नता उद्वेगस्य कारणं भवति या च तस्य विकासमपि रुणद्धि। एवं च स्वजीवनं प्रति तस्याऽभिगमोऽपि परिवर्तितो भवति । कदाचित् स स्वं हीनमेवाऽनुमन्येत कदाचिच्च स्वच्छन्दोऽपि भवेत् येन तथ्यं सारभूतं वा जानन्नपि न तथा कर्तुमुत्सहेत । एतच्च नैव श्रेयस्करं कस्याऽपि । ___अधुनाऽपरपक्षो विचारणीयः । सर्वेषामपि कश्चिदुत्तरदायको भवत्येव । यथा वयं कस्यचित्तथा कश्चिदस्माकम् । एवं च सति साहजिक्येवाऽऽकाङ्क्षा विद्यतेऽस्माकं यत् सोऽस्माकमुत्तरदायकोऽस्माभिः सहौदार्यपूर्वकं वर्तताम्, अस्मान् अस्मत्क्षतींश्चाऽवबुध्यताम्, तदनुरूपं च व्यवहरतु । किन्तु यथाऽस्माकमस्मदर्थे परार्थे वाऽभिप्रायो वर्तते तथा परेषामप्यस्माकं विषये कश्चिदभिप्रायो वर्तत एव । तस्याऽपि स्वकीया " स्वतन्त्रा भिन्ना च विचारधारा प्रवर्तत एव । तदनुरूपमेव च स व्यवहरति प्रवर्तते च। मर्यादाशब्दो नाऽत्राऽपि विस्मर्तव्यः । स च सर्वत्राऽनुबध्यते । तदीयत्ता तु न्यूनाऽधिका वा स्यादपि । अतः कश्चिद् व्यवहारो वर्तनं वा यदि नाऽस्मभ्यं रोचेत तस्य तर्हि न र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy