________________
यद् जनानां मर्यादा मुक्त्वा नास्त्यन्यत् किञ्चिदपि ।एतादृश्य उपर्युक्ता वृत्तयस्तु तस्य । स्वभावस्य मर्यादाऽस्ति यत् स तथा वर्तितुं प्रेरितो भवति ।
सर्वा अप्येषा रावाः पारस्परिक्यः सन्ति । वयमन्यं लक्ष्यं कृत्वा रावां कुर्महेतथाऽन्योऽप्यस्मानुद्दिश्य करोत्येव । अस्माकं स्वभावस्याऽपि मर्यादाऽस्त्येव , यां च . स्वीकर्तुं न वयं कदापि सज्जीभवामः । प्रत्युत 'तेन बोद्धव्यम्' इत्यस्त्यस्माकमपेक्षा, किन्तु 'मयाऽपि बोद्धव्यम्' इति तु नास्त्यस्माकं दृष्टिः । एतदेव बोधशून्यत्वमस्ति सर्वेषामपि क्लेशानां मूलम् । ___ यदि च वयं सर्वेऽप्यस्माकं पारस्परिकी: मर्यादाः सम्यग् बोधयेम स्वीकुर्याम च तदनुरूपमेव च यदि कार्याणि कुर्याम तर्हि बहुभिरनथैरनिष्टैर्दुष्परिणामैर्वा रक्षणमपि
भवेत् । तथा च व्यवहारस्य माधुर्यमपि रक्षितं स्यात् । किन्तु न कदापि वयमस्माकं kis परेषां वा मर्यादा क्षमतां वा स्वीकुर्मः । अत एव वैमनस्यमेव वर्धते ।।
स्वकीयां मर्यादामज्ञात्वाऽस्वीकृत्यैव वा कस्मिंश्चिदपि कार्येऽभिमानतया यदा वयं साहसं कुर्मः यदा च तत्र विपरीतपरिणाममापतति तदा परस्मिन् जने दोषारोपणस्य हीनवृत्त्या स्वरक्षणकरणावसर उपस्थितो भवति । यद्यत्र वयं समर्थास्तर्हि तु तथा दोषारोपणेन भवति स्वरक्षणं किन्तु न तदस्माकमुत्तमत्वमाभिजात्यं वा। 'सर्वमहं कर्तुमीश्वर' इतिवत् 'मया कृते क्रियमाणे वा कार्ये न कदापि क्षतिर्भवति' इत्यप्यसत्यं तथ्यशून्यमेव । मिथ्याभिमानस्याऽन्धकारः स्वमर्यादाया उपलक्षणं रुणद्धि। ___अपरं च , अस्त्यस्माकमपेक्षा परस्मात् श्रेष्ठपरिणामस्य, तत्र च नास्ति काऽप्यनौचिती।
किन्तु यदि तस्य क्षमता तादृशी तावती वा न स्यात् तर्हि तावन्मात्रेण न स उपेक्षितव्यो 2 वा तिरस्कर्तव्यो वा भवति । बहुशो वयमेवं चिन्तयाम इच्छामो वा यत् 'तेनैवमेव
वर्तितव्यम्, एवं च व्यवहर्तव्यम्' किन्तु स न तथा वर्तेत अन्यथाऽपि वा कदाचित् " वर्तेत, तर्हि तत्राऽस्ति तस्य बोधस्य मर्यादा । यद्यपि स सर्वथाऽनभिज्ञोऽस्ति न च में
किञ्चिदपि जानाति इति तु न, कदाचिच्च ज्ञात्वाऽपि स तथा करोति यन्नाऽस्मभ्यं रोचेत ॐ तथाऽपि तत्र तस्य मर्यादा एव कारणम् । स जानन् विचारयन् सन्नपि स्वसंस्कारपारवश्येन
८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org