________________
आख्यादः
चिन्तनधारा
मुनिरत्नकीर्तिविजयः
बहुशो वयमन्यैः सह व्यवहारेऽसहजा भवामः । मनश्चाऽस्माकमुद्विग्नं भूत्वा विचाराटव्यामटनं करोति । 'नैतत् समुचितं, नैतत् समुचितं जातं, नैवं वाऽनेन समीचीनं कृतं, स्वयं कृतमेव हि शोभनं भवेत् ' - इत्यादिभिरीदृग्भिर्विकल्पैः चित्तं सदा विक्षिप्तं भवति ।
एतस्य एतादृशस्य वा चित्तविक्षेपस्याऽसहजतायाश्च मूलमस्त्यन्यजनेभ्यः सकाशादस्माकमपेक्षा । अपेक्षानुरूपं कार्यं यदि न स्यान्न वाऽन्यः कुर्यात् अपेक्षातो विपरीतं वा यदि स्यात् तदैतादृशो विक्षेप उत्तिष्ठते क्लेशश्च समुद्भवति ।
अत्रैतत् स्पष्टं ज्ञातव्यं स्वीकर्तव्यमेव च यत् प्रत्येकं मनुष्यस्य स्वकीयस्य बोधस्य मर्यादा क्षमता चाऽस्ति । स च तन्मर्यादानुरूपं क्षमतानुरूपमेव च कार्ये जीवनव्यवहारे च प्रवर्तते । यः कश्चिदपि परकीयां स्वकीयां वा क्षमतां मर्यादां वा न स्वीकरोति स्वीकर्तुं वा न शक्नोति स न कदापि पारस्परिके व्यवहारे साहजिक उदारो वा भवति । स कदाचिदीर्ष्यया पीड्यते कदाचिच्च विक्षेपेण । यद्यपि, भवतु ईर्ष्या वा विक्षेपो वा वस्तुतस्तु असहजतैव तत् । अस्माकं जीवनचर्याया व्यवहारस्य चाऽसामञ्जस्ये तु हेतुरप्येषैवाऽस्ति । अस्माकं स्वीकारोऽस्वीकारो वा नाऽत्र महत्त्वपूर्णः ।
साम्प्रतकाले तु प्रतिपदं पारिवारिक: सङ्क्लेशो दृश्यते, कौटुम्बिको विच्छेदोऽपि भवति, समस्त: समाजोऽपि विद्रोहेण पीडितः, राजनैतिक क्षेत्रेऽपि नास्ति समस्यानामल्पत्वम् । सततं सर्वत्र - औदार्यं नास्ति, महत्त्वाकाङ्क्षी अस्ति, धनेन गर्विष्ठोऽस्ति, स्वमतिमेवाऽनुसरति, सहकारवृत्यभावोऽस्ति, स्वेच्छाचारी अस्ति, स्वयशोलाभार्थमेव यतते, पादाकर्षणवृत्तिरस्ति, सत्तालोलुपोऽस्ति, स्वार्थी अस्तिइत्यादिका रावा: श्रूयन्ते । किन्तु सर्वस्या अपि रावाया यदि मूलं गवेषयेम तर्हि ज्ञायेत
Jain Education International
८३
For Private & Personal Use Only
www.jainelibrary.org