________________
व्यवहृतिषु व्यवस्थापितलेखान् अविवादं निर्णीतविवादान् । दण्डनीयजनदापितदण्डान् पण्डितवर्यान् धर्मस्थीयान् ।
औचित्यानुष्ठितषाड्गुण्यान् वाचि च मनसि च कर्मणि चैकान् व्यसननिचयनिर्वाहे निपुणान् असकृत् समरप्रवीणान् अधिकृतान् ।
नीराजनकृतिः [ द्विजावन्ती।] विहितार्थशास्त्राय धृतसुमतिशस्त्राय कौटिल्य ते सुमनोनीराजनम् । स्फुटवाक्यजालाय देशनाशीलाय दृढविहितशासनै राष्ट्रपालाय मृदुमनोहीनाय नीतिष्वदीनाय मनुजशुभलीनाय नीराजनम् । अबलकारुण्याय मन्त्रिगणगण्याय स्थिरतरीकृतमूल्याखिलसुपण्याय प्रणिधिजनविनुताय नययोगनिरताय नीतिज्ञसुकृताय नीराजनम् । सेहिसुहृदार्याय रिपुनाशकार्याय राष्ट्रयोगक्षेमानल्पधैर्याय विश्वतोनेत्राय धृतदण्डतोत्राय प्रकृतिहितसूत्राय नीराजनम् ।
भावुकानां हृदम्भोजे भास्करीयतु सन्ततम् । जगन्नाथेन रचितं रुच्यं कौटिल्यवन्दनम् ॥
ReceSCBSE OBC
|Ke S& E%EGE& CGPS& EGEGENCE
HALLAHAugustention
.
चतुर्णामपि वेदानां धारको यदि पारगः । तथापि लौकिकाचारं मनसाऽपि न लङ्घयेत् ।।
(आचारदिनकरे)
८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org