________________
-
&BOSS BOBORE BOOR
मायाचमत्कृतिकारिणी माल्यादिकूतिशीला स्वीयासु समधीतासु सद्विद्यासु मानभरा । विविधासु ललितकलासु नाट्यमुखासु बहुलसुखा भुवि दैवकृषिसमरोचितप्रभूति प्रभावपरा ।
सैन्यम् ।[वलजि] शूराधिशूर भोः शस्त्रप्रयोगे धीराग्रणीर्युधि प्रचुरभयवेगे धन्यं महीन्द्र तव हृदयेन घोरं सैन्यं सदाऽप्यायुधैरतिकठोरं सर्वतोभद्रादियत्रैः स्थिरैरते गर्विणो योधा अनीके प्रशस्ते किंचातिविहितरिपुसंघातदलनैः पाञ्चालिक प्रभूतियत्रैः सचलनैः शत्यादिनिशिततमशस्त्रगविशेषान् युक्त्या प्रयुञ्जते सैनिकाः शेषान् तालादिधनुरीषदुद्धृत्य यशसा ये लान्ति जयकृतां माननां महसा ।
शासनम् । [ लताङ्गी] समवालोकयाम देव कमनीयगुणं प्राज्यं राज्यम् । नियतेन्द्रियतां राजसुतेषु नयपरधर्मान् मन्त्रिगणेषु कररुपात्तमणिप्रकरेषु विरचितविविधपरीक्षाकान् सुपरीक्षितसौवर्णाभरणान् उपचितकोशान् अध्यक्षान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org