________________
प्रशस्तिागीताम्
राग- गायो गायो रे... गीतं गीतं रे जिनगुणगानं गीतम् । प्रीतं प्रीतं रे मम चेतः सम्प्रीतम् ॥ चतुर्विंशतिजिनवरवून्दं, वर्तमानमुपनीतम् । गुणगानाध्वनि भवभवसञ्चित-दुरितजालमपनीतम् ॥१॥ गीतं... वीरशासने येषामुदयात्,कुमततमो भयभीतम् । वन्दे सूरिं विजयानन्दं, भास्करदीप्रमतीतम्
॥२॥ गीतं... । कमलसूरिमथ दानसूरिमथ, प्रेमसूरिमविगीतम् । विपुलश्रमणगणसर्जनतो यैर्जिनशासनमुन्नीतम् ॥३॥ गीतं... रामचन्द्रसूरिस्तत्पट्टे, ख्यातो व्याख्यातीतम् ।
पण्डितभद्रङ्करगुरुवचनं, पीयूषमिव प्रतीतम् ॥४॥ गीतं... * वाचकमहायशोविजयं त-च्छिष्यं गुणिषु विनीतम् ।
नत्वा शिष्यधुरन्धरविजयो, व्यरचज्जिनगुणगीतम् ॥५॥ गीतं... SAD जयति विजयमहोदयसूरेरधुना राज्यं स्फीतम्
दृष्टि ८ शरा ५ म्बर ० दृग् २ मितवर्षे भक्तरमृतं पीतम् ॥६॥ गीतं... जिनगुणगानसुधारसपानं, श्रुतिपुटयुगलनिपीतम् । शमयतु कृत्स्नां भवदवतृष्णां, हिमहिमरुचिशुचिशीतम् ॥७॥ गीतं...
Aad
५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org