________________
८
(9)
*
वल्मीकगर्भ विश भो मुने ! पनः
Jain Education International
॥ १ ॥
किं भोः कथं राम इति प्रगायसि मारस्त्विदानीं प्रबलो धरातले । हाहाकृतिर्नृत्यति दोषशर्वरी वल्मीक गर्भं विश भो मुने पुनः ॥ ॥२॥
शास्त्रे च शस्त्रे प्रथमं नृपोत्तमं धत्से त्विदानीं पदवित्तलोलुपाः । गृध्रा इव क्रव्यभुजो जयन्ति ते वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ ३ ॥
राज्यं प्रजानामभयं सुखाकरं चेत्ते महातङ्कविभीषिकाऽधुना । गाण्डीवटङ्कारमपि प्रतर्जति वल्मीक गर्भं विश भो मुने पुनः ॥
॥ ४ ॥
डॉ. सुरेन्द्रमोहनमिश्रः कुरुक्षेत्रविश्वविद्यालय:
पौलस्त्यदोषान्कलुषैः स्वकैर्नृपाः कुर्वन्ति चोनानपि लज्जितान्मुदा । स्वतन्त्रता वार्जिततन्त्रतां गता वल्मीक गर्भं विश भो मुने पुनः ॥
* २०.२.२००२ दिनाङ्के कुरुक्षेत्रस्य ब्रह्मसरोवरस्थकात्यायनीपीठे संस्कृतभारत्याः श्रीवाल्मीकिजयन्तीसंस्कृतकविसम्मेलने पठितम् ।
६८
For Private & Personal Use Only
८)
www.jainelibrary.org