________________
॥५॥ पाश्चात्यपन्थाः स उरीकृतो जनैः प्राच्यस्तु धर्मः स्मृतिशेषतां गतः । दुर्व्याख्यया मूर्च्छितवेदसन्ततिवल्मीकगर्भ विश भो मुने पुनः ॥
૬ | कौटुम्बिकं सौख्यमपाकृतं तु हा स्वार्थप्रमादैः सततं बुभुक्षया । वृद्धालये वार्धकमासते ना वल्मीकगर्भ विश भो. मुने पुनः ॥
॥७॥ मात्स्यः स चासौ कुरुते पदं भुवि न्यायो बली दुर्बलमत्ति नित्यशः । कीटाः पतङ्गा इव मानुषा हता वल्मीकगर्भ विश भो मुने पुनः ॥
॥८॥ भ्रष्टस्त्वधोऽधः परियाति मानवः स दानवानां कुरुते पदार्चनम् । दैवीस्त्यजन्सम्पदमासुरीः श्रितो वल्मीकगर्भ विश भो मुने पुनः ॥
॥९॥ पृथ्वीं विहाय प्रगता उदङ्मुखा नक्षत्रयात्रां तु बुधाः प्रकुर्वते । पुत्रः पृथिव्या म्रियते बुभुक्षया वल्मीकगर्भं विश भो मुने पुनः ॥
६९
Jain Education International
For Private & Personal Use Only:
www.jainelibrary.org