________________
Jain Education International
॥ १० ॥ शिक्षा न चास्ते न च संस्कृतिर्जने कामार्थकुत्सा विनिहन्ति सभ्यताम् । रामः कुतस्तस्य च राज्यलक्ष्मीवल्मीक गर्भं विश भो मुने पुनः ॥
॥ ११ ॥ नेता प्रमाथी व्यसनैकदृष्टिमान् धूर्तः प्रजातन्त्रविनाशहेतुकः । कोशस्य हर्ता प्रजया चितस्य यो वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ १२ ॥
सा भारती रोदिति राष्ट्रमातृका यच्छिन्नमस्ता सुचिरात्पराभवैः । पुत्रा न शृण्वन्ति तत्रपा मला वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ १३ ॥ सद्धर्मनिष्ठा क्व च कर्मनिष्ठता क्वाऽसौ जनानां नयवर्त्म वर्तिता । जीवेषु वृक्षेष्वपि चाऽऽत्मभावना वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ १४ ॥
गीर्वाणवाणीं जनमानसेषु तां निषिञ्चितां वर्षसहस्रकाद्धठात् । दूरीचिकीर्षन्ति विमूढचेतसो वल्मीक गर्भं विश भो मुने पुनः ॥
७०
For Private & Personal Use Only
www.jainelibrary.org