________________
॥१५॥ जातिमहिष्ठा गुणकर्मता गता वर्णस्य भेदे श्रुतिवम॑निर्वृता । नीचोर्ध्वभावेन मिथोऽर्दयन्ति ते वल्मीक गर्भ विश भो मुने पुनः ॥
॥१६॥ हा जन्मना ब्राह्मण एति कोऽपि सः स क्षत्रियो वैश्य इतोऽपि शूद्रताम् । अस्पृश्यताव्याधिरुदेति दु:सहा वल्मीकगर्भ विश भो मुने पुनः ॥
॥१७ ॥ शूद्रः स आशु द्रवति प्रजाहितः शिल्पादिकर्माणि धिया सृजन्वशी । किं हेतुनाऽसौ दलितो हरेर्जनो वल्मीकगर्भ विश भो मुने पुनः ॥
FARP UR
द्वीपः स जम्बुर्भरताख्यखण्डको यत्र स्थिता संस्कृतिमातृका भुवः । रक्ते ऽप्यभिन्ने सहजाः सदाऽजिरे वल्मीक गर्भ विश भो मुने पुनः ॥
॥१९॥ ज्ञानञ्च तत्व क्च विवेकवृत्तिता त्वन्धा यथान्धान्विनयन्ति हा जनान् । रामायणं पूज्यमथो न पालितं वल्मीकग विश भो मुने पुनः ॥
७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org