________________
-
-
कथा समाधानम्
विजयसूर्योदयसूरिःअमेरीका- इत्याख्यो देशोऽस्ति । तस्मिन् लिंकननामा वाक्कीलोऽभवत् । तस्य पार्श्वे कोऽप्येको धनिक आगतः। तेन सहाऽन्योऽपि कश्चिज्जन आसीत् । धनिको लिंक न-महोदयायोक्त वान् - 'अहं सार्धद्वयडोलरमितं धनमस्मान्मनुष्यान्मार्गयामि । स च मह्यं तन्न दत्ते । अतः कमप्युपायं दर्शयतु।' लिंकनः- कथं स न ददाति? धनिकः- स निर्धनोऽस्ति । लिंकनः- तर्हि स कथं दद्यात् ? धनिकः - (साग्रहम्) न । कमप्युपायं करोतु । लिंकन:- ओम् । दर्शयामि । किन्तु तदर्थ तु मह्यं दशडोलरमितं धनं देयं भवता।
धनिकः- स्वीकरोमि।
एवं कथितो धनराशिस्तेन दत्तः। तस्मात् पञ्चडोलरमितं धनं तस्मै निर्धनाय लिंकनो दत्तवान् । उक्तवान् च - 'अस्मात् सार्धद्वयमस्मै धनिकाय देहि । सार्धद्वयं ।।
च त्वं रक्ष' । पञ्चडोलरमितं धनं च स्वयं गृहीतवान् । पश्चात् धनिकं प्रति उक्तवान् लिंकनः - ‘प्राप्तं ते धनम्?'
एतेन विलक्षीभूतो धनिकः 'ओम्' इत्युक्तवान् । तदनु च लिंकनः अमेरिकादेशस्य प्रमुखो जातः ।
-०
१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org