________________
कथा
विजयसूर्योदयसूरिः
एकदा देवा दानवा मनुष्याश्च प्रजापतिमुपदेशार्थमुपतस्थुः। प्रजापतिना त्रिभ्योऽपि सर्वसामान्योपदेशो दत्तः - 'द"द“द' इति ।।
देवैर्विचारितम् - वयं भोगमग्नाः, विषयासक्ताश्च । अतो दकारेण 'दम' इति इन्द्रियदमस्योपदेशोऽस्मभ्यं दत्तः । अतोऽस्माभिरिन्द्रियदमे यत्नः कार्यः।
दानवैः स्वनिरीक्षणं कृतम् । स्वस्योगस्वभावमुपलक्ष्य तैनिश्चितं यद् - अतः पर- मस्माभिर्दयालुत्वेन वर्तितव्यम् । द- इत्यनेनाऽस्मभ्यं दयाया उपदेशो दत्तः। ।
मानवैः स्वस्वभावगता लोभान्धता संग्रहशीलता चा ज्ञाता । तैर्विचारितम् - 'द' इतिशब्देन 'दानं कुर्वन्तु' इति वयमुपदिष्टाः । तथैव च प्रयतितव्यमस्माभिः।
एवं च विचारयद्भिः त्रिभिरपि स्वस्वदोषा ज्ञाताः । उपदेशस्य सारोऽपि गृहीतः । तथा च दोषान् त्यक्त्वा गुणान् स्वीकृतवन्तस्ते सर्वेऽपि ।
-0
व्यक्षरस्तु भवेन्मृत्युः, त्र्यक्षरं ब्रह्म शाश्वतम् । 'ममे' ति व्यक्षरो मृत्युः, 'न ममे' ति च शाश्वतम् ।।
(महाभारते)
१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org