SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ लोभः सर्वविनाशकः मुनिरत्नकीर्तिविजयः आसीत् कस्मिश्चिन्नगरे साहित्य सङ्गीत - कलादिविषय- रसिकः एको नृपतिः । नित्यं तस्य सभायां विदुषां सम्मेलनं भवति स्म । तत्र च ज्ञानचर्चा प्रचलति स्म । नित्यं च नवीनाः स्वदेशस्था अन्यदेशीयाः पण्डिताः कवयो विविधविषयनिपुणाश्च जनास्तत्राऽऽगत्य स्वस्वविषयनैपुण्यं प्रदर्शयन्ति स्म राज्ञः पुरत: । राजाऽपि प्रसन्नो भूत्वा तेषां सर्वेषां यथोचितं सम्माननं कृत्वा तान् प्रीणयति स्म । कथा - S एकदा तस्य सभायां परदेशीयः कश्चित्कविरागतः । स च शीघ्रं काव्यानि कुर्वन्नासीत् । सोऽनेकानि पदालङ्कारादिलालित्यपूर्णानि अश्रुतपूर्वाणि काव्यान्यश्रावयत् राजानं राजसभां च । सर्वेऽपि तादृशान्यद्भुतकाव्यानि समाकर्ण्याऽतीव प्रसन्ना अभवन् । राजाऽपि तस्य तथा काव्यशक्तित: चमत्कृतिमनुभवन्नानन्दितोऽभूत् । आज्ञप्तवान् च स निजं प्रधानं यत् एकादशवादनतो द्वादशवादनपर्यन्तं वित्तकोषस्य द्वारमुद्घाटयतु । तावत्यां वेलायां • यावन्ति स उवोढुं शक्नुयात् तावन्ति रत्नमणिसुवर्णादिद्रव्याणि यथेच्छमेष कविवरो गृह्णातु " इति । " अद्य 4 राज्ञ आज्ञां शिरस्यवधार्य तं कविं सादरं नीत्वा प्रधानो गतवान् । मार्गे कविना विचारितं यत्- “गृहात् पात्रानयने तु समयक्षतिर्भविष्यति । अतो मार्गादेव किमपि पात्रं ग्रहीष्ये" इति । एवं चैकस्या विपणेर्धान्यभरणयोग्यः स्यूतस्तेन क्रीतः । एकादशवादनसमयो जात: । प्रधानेन कोषस्य द्वारमुद्घाटितम् । तत्र च रत्नमणि - मौक्तिक - सुवर्ण- - रजत- हीरकाद्यनेकानि बहुमूल्यानि वस्तून्यासन् । प्रधानः कवि प्रत्युवाच "कविवर ! प्रारभताम् । राजाज्ञामनुसृत्य द्वादशवादनपर्यन्तं यथेच्छं यथाशक्ति च यावन्तं भारं भवान् वोढुं शक्नुयात् तावन्तं गृह्णातु " इति । Jain Education International १०५ For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy