SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अथ कविः ‘सुवर्णमुद्रा एव ग्रहीतव्या' इति विचिन्त्य तद्ग्रहणे प्रवृत्तोऽभवत् । पञ्चदशनिमेषा व्यतीताः । पश्चाद् यावत् स्यूतमुद्वोढुं स प्रयत्नं कृतवान् न किन्तु / तत्राऽतिभारात् स सफलोऽभवत् । तथाऽपि लोभाविष्टः स तस्मात् स्यूतात् कतिचित् सुवर्णमुद्रा न्यूनाः कर्तुं न सज्जोऽभवत् । किन्तु – “सर्वा अपि मुद्रा निष्कास्यहीरकाण्येव ग्रहीतव्यानि । तानि तु यदि स्वल्पान्यपि भविष्यन्ति तथाऽपि बहुमूल्यानि भविष्यन्ति" इति विचिन्त्य हीरकाणि तेन भृतानि । पुनश्च लोभेन तेन स्यूत आकण्ठं भृतः । अतः पुनरपि तद्भारवहनेऽसमर्थः स समभवत् । एवमेव चाऽर्धघण्टासमयो व्यतीतः । तदनु विचारपरिवर्तनात् तानि निष्कास्य रौप्यमुद्रास्तत्र भृतास्तेन । पुनश्च तथैव / सञ्जातः । एवं तावत् खिन्नः सन् स व्यचारयत् यद्-'यदि ग्रहीतव्यमेव तर्हि कथं - सुवर्णमेव न गृह्णीयाम् ?' इति । किन्तु लोभस्तस्य कटीं नाऽमुञ्चत् । अतो वारं वारं स निष्फल एव भवति । एवमेव च झटिति समयो व्यतीतः । पञ्चनिमेषा एवाऽवशिष्टाऽधुना । तथाऽपि न तस्य मनःस्थितौ परिवर्तनं जातम् । अनेकशो निष्फलता प्राप्तोऽपि जनो न स्वलोभावेशं त्यक्तुं शक्नोति । एवं च पुनः सोऽचिन्तयत्- "यदि नाम रत्नानि न हि ग्रहीष्यामि तर्हि लोका मां मूर्ख मंस्यन्ते । अतः सर्वमन्यद् विमुच्य रत्नान्येव । गृह्णीयाम्" इति । एवं यावत् सुवर्णमुद्राः सन्त्यज्य रत्नानि ग्रहीतुमुद्युक्त: सोऽभवत् तावत् द्वादशवादनसूचका घण्टा वादिता । तदैव च प्रधानोऽवक्-"कविवर ! समयः समाप्तोऽधुना । भवान् तु यथागतो रिक्त एव स्थितोऽधुनाऽपि, यन्न किञ्चिदपि भवता गृहीतम् । सम्प्रति बहिरागच्छतु" इति । अनेन च खिन्नेन तेन कविना स्यूतस्तत्रैव विदारितः। १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy