________________
कथा समर्पणम्
-मुनिधर्मकीर्तिविजयः आसीत् "समर्थः स्वामी रामदासः" नाम गुरुः। भक्तशिष्यवृन्दैः परिवृतः स प्रभुध्याने एव निमग्नः आसीत् । तस्य सर्वेऽपि शिष्याः गुरुभक्तिपरायणाः आसन् । सदा गुर्वाज्ञायाः अनुपालनं परिशुद्धं कुर्वन्तः आसन् । “गुरुवाक्यं ब्रह्मवाक्यं" इति मन्यन्ते स्म ते ।।
एकदा “शिष्याणां परीक्षां कुर्याम्" इति विचारो जातो गुरोः चित्ते । तत्पालनार्थं गुरुणा स्वकीयादुद्यानादेकं परिपक्वमाम्रफलमानीतम् । पश्चाद् रहसि स्थित्वा तेन तदानफलं स्वकीयचरणे बद्धम् । तस्योपरि चातुर्येण वस्त्रपट्टिका तथा वेष्टिता यथा न ज्ञायेत केनाऽपि।
द्वितीयदिने शिष्याः गुरोः वन्दनार्थमागताः । तदा स गुरुः पुनः पुनः पीडायाः व्याजेनाऽऽक्रन्दति स्म। शिष्यैः व्याकृतम् - प्रभो! किं भूतम् ? किं न स्वास्थ्यस्याऽऽनुकूल्यं वर्तते ? गुरुः आह- वत्साः! मम पादे एकः पिटको जातः , तस्य वेदनया पीडयाम्यहम् । सहसैवोत्थायैकः शिष्यः उवाच- प्रभो! काऽऽज्ञा? अधुनैवौषधानि आनयेयम् !
गुरुणा गदितम्- वेदनायाः शान्त्यर्थमेकः एवोपायः, यदि नाम कोऽप्येतस्मात् पिटकात् स्वमुखेन पूतं लिह्यात् तदा वेदना नश्येत् ।
एतच्छ्रुत्वैव सर्वे शिष्याः स्तब्धाः अभूवन् । तथा च ते परस्परं मुखमपश्यन् च । सर्वेषां वदनेषु तत्क्षणं ग्लानिः सञ्जाता। ___ सर्वेषां चित्ते गुरुं प्रति पूज्यभावः आदरश्चाऽऽसीदेव । तदर्थं किमपि कर्तुं प्रयत्नवन्तः आसन् । किन्तु एषा घटना तु प्राणहारिणी। पिटकस्य पूतं तु विषमेव । ततो यदि केनाऽपि गृह्यत तर्हि तदीये शरीरेऽप्येते पिटकाः उत्पद्येरन् । तदा
१०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org