________________
श्रीशीतलदेववन्दना - १०
e
॥१॥
चैत्यवन्दनम् शीतल ! शीतलया दृशा, भविकान् शीतलयन् ! । जय शीतलशमरससुधा - श्रवणं भुवि कलयन् ! नन्दाहृदयानन्दकर ! दृढरथनरपतिनन्द ! । भदिलपुरभूभामिनी - भूषण ! भविकानन्द ! श्रीवत्साङ्कितकाय ! शुद्ध - शीलसुगन्धिशरीर ! । शाम्यधुरं धर मे हृदि, धर्मं शिवतरुकीर !
॥२॥
રો
स्तवनम्
राग - आदिजनं वन्दे गुणसदनम् शीतलजिनमीडे शमशीतं, भालङ्कृतवरभालं रे । शान्तसुधारसपरमनिशान्तं सालङ्कृतततुसालं रे ॥१॥ शीतलजिन.. जिनवर ! तव भुवने हतवृजिनं, सङ्गतवचनमसङ्गं रे । परदुर्मतवृन्दं जयति परं, भङ्गहितनयभङ्गं रे ॥२॥ शीतलजिन... पारङ्गत ! जिन ! मां नय पारं, साररहितसंसारं रे। कारय तव धर्मं शिवकारं, मारय दुर्मदमारं रे ॥३॥ शीतलजिन... सुरगणपूजित! तर्जितपरसुर!, भवपारग ! गतपरिभव ! रे । मानवहित ! कुर्वे गतमान - स्तव सेवां शुभसंस्तव ! रे ॥४॥ शीतलजिन...
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org