SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ विषयत्यागाष्टकम् -विजयहेमचन्द्रसूरिः चतुरशीतिलक्षासु, योनिषु भ्राम्यता मया । यद् यदाचरितं पापं, तद्वक्तुं नैव पार्यते ॥१॥ असंवृतेन चित्तेन, तथाऽसंस्कृतया गिरा । दुष्प्रवृत्तेन कायेन, भृशं पापमुपार्जितम् ॥ २॥ देवादिगतयस्तिस्रो, गतिमेकामिमां विना । बन्धाय पुण्यपापानां, केवलं, न क्षयाय तु ॥ ३ ॥ अद्य प्राप्तोऽस्ति संयोगो दुर्लभो जन्मकोटिभिः । तं लब्ध्वा किल कुर्वेऽहं, विपुलां कर्मनिर्जराम् ॥ ४ ॥ शब्दादिविषये यत्नात्, प्रतिबन्धमपि त्यजे । यतस्ते सर्वदा नैक-स्वरूपाः सन्ति देहिनाम् ॥५॥ यद्रुपमेकदा दृष्ट्वा, नृत्येते स्माऽक्षिणी भृशम् । सम्मुखं चाऽऽगतं तन्ल, रोचतेऽद्य निरीक्षितुम् ॥६॥ श्रोतुं भोक्तुं तथा स्प्रष्टुं, द्रष्टुमाघातुमिच्छति । सदा नवं नवं चाऽयं, भुक्तपूर्वोऽप्यनन्तशः ॥ ७ ॥ करुणाब्धेऽथ नाथ ! त्वा - मद्य प्राप्य निरञ्जनम् । सर्वेभ्यो विषयेभ्योऽहं, भवेयं विरतो विभो ! ॥ ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy