________________
Jain Education International
प्रव्रज्याग्रहणविधिसूत्रम्
( श्रीमत्पञ्चसूत्र - तृतीयसूत्र - पद्यानुवादः )
एवं यथोक्तमुनिधर्मविभावनेन सञ्जाततीव्रतरतद्ग्रहणाभिलाषः । तत्प्राप्तये प्रयतनं विधिना तु कुर्या - दन्योपतापरहितं स्वहितप्रवीणः ॥ अन्योपताप इह तत्प्रतिपत्तिविघ्नमेषोऽनुपाय इति सुज्ञजनेन हेयः । आरभ्यते यदशुभेन पथा नु कार्यं जायेत तद्धितकरं न कदापि कर्तुः ॥ बोध्यौ कथंचिदपि चाप्रतिबुद्धभावौ वैराग्यसारवचनैः पितरौ स्वकीयौ । “ तज्जीवितं यदुभयत्र फलावहं स्यात् सद्धर्मसेवनपुरस्सरमेव तच्च ॥ कर्माणि यानि समुदायगतैः कृतानि भोग्यानि तानि समुदायगतैः पुनस्तैः । कुर्याम तत्समुदिता वयमत्र धर्मं येनायतौ भवति नूनमविप्रयोगः ॥
५६
For Private & Personal Use Only
१
३
४
-मुनिः भुवनचन्द्रः
www.jainelibrary.org