________________
अरमाकमेकतरुसंश्रितपक्षिसंघतुल्यो ह्ययं स्वजनसंगकृतप्रसङ्गः । स्वच्छन्द- निघृण- सुनिश्चित-पार्श्ववर्ती मृत्युर्ग्रहीष्यति कदा-तदहं न जाने ॥
अम्भोनिधौ पतितरनसमं दुरापं मानुष्यकं नहि बुधेन मुधातिवाह्यम् । अन्ये भवा अकुशला अतिदुःस्वरूपा मोहान्धकारबहुला न सुधर्मयोग्याः ॥
मानुष्यकं भवजले खलु पोतभूतं सम्मुद्द्य तस्य विवराणि तु संवरेण । सज्ज्ञाननाविकयुतं सुतपःप्रवेगं योज्यं च तद्भवजलोत्तरणे स्वकार्ये ॥
७
दुष्प्राप एष खलु हस्तगतः क्षणोऽयं तुल्यं च तेन नहि वस्तु समस्ति किञ्चित् । सिद्धेश्च साधकतमो वरधर्मयोगस्तस्यापि साधनमसौ नरजन्मलाभः ॥
८
मुक्तेः पदं मतिमतां नितरामभीष्टं नो सन्ति यज्जनिजरामरणानि तत्र । नापि प्रियाप्रियपदार्थवियोगयोगा नैव क्षुधा न च तृषा न तथान्यदोषाः ॥
९
५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org