________________
यत्रात्मनः स्थितिरहो परमस्वतत्रा रागादिदोषरहिता शिवशान्तरूपा । संसार एष किल तद्विपरीतरूपः प्रत्यक्षमेव परिवर्तनशीलधर्मा ॥
१०
एकक्षणे भवति यन्नहि तद्वितीये दृष्टः सुखी य इह सोऽप्यसुखी निमेषात् । स्वप्नेन संवदति सर्वजगत्प्रपञ्चो योग्यः कथं तदिह बुद्धिमतां विमोहः? ॥ ११
तत्प्रार्थये मयि कृपां कुरुतां भवन्तौ व्युच्छित्तयेऽस्य भवतां किल बद्धकक्षौ । सानोमि चाहमपि युष्मदनुज्ञयैतत् । प्राप्नोमि दुःखपरिहाणमभीष्टलाभम् ॥” १२
बोध्यो ह्यनेन विधिनेतरबन्धुवर्ग एतैः समं श्रमणधर्मरतो भवेत्सः । नित्यं निजोचितविधानपरो निराशः संसाधयेदिति जिनेश्वरशासनं च ॥
मात्रादिक प्रबलमोहवशस्वकीयलोकप्रबोधनविधौ यदि न प्रभुः स्यात् । कुर्यात्तदा तदुपकारकरं विशुद्धमाजीविकाहमुचितं किल संविधानम् ॥ १४ ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org