________________
सैषा परा नु करुणा च कृतज्ञता च धर्मप्रधानजननी जगति प्रसिद्धा । एवं प्रसाद्य पितरावितरांश्च बन्धून् धर्मं ततोऽनुमतिमाप्य समाददीत ॥
एवं कृतेऽप्यनुमतिर्यदि नोपलब्धा निर्माय एव विदधीत ततोऽत्र मायाम् । सर्वात्मनां हि हितकृद्वरधर्मलाभः सम्पादनीय इति सोऽत्र यथाकथञ्चित् ॥ १६
स्वप्नादिकल्पितकथाभिरपि प्रबोधं नो प्राप्नुयुः परिहरेदथ तान् प्रबुद्धः । न्यायः किलात्र विषये त्यजनं स्वपित्रोः रुग्णस्थितावगदलाभकूते वनादौ ॥
१७
कश्चित्पुमान् गहनकाननमध्यभागे पित्रादियुक् स्वपितृभक्तिपर: प्रयाति । शक्यौषधो नियमघातक उग्ररुपो रोगो भवेत् पितृजनस्य कदापि तस्य ॥
१८
आलोचयेत्स गुरुषु प्रतिबद्धभावो “योग्यौषधेन रहिता न भवेयुरेते । शङ्का किलात्र गहने विपिने चिकित्सा लाभेऽथ कालसहना अधुना किलामी ॥” १९ ज
ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org