________________
संस्थाप्य तान् कथमपि क्वचन प्रदेशे निर्वाहसाधनतदौषधमार्गणार्थम् । दूरं व्रजन्नपि सुतो नहि दोषपात्रं मेधाविनां पुनरहोऽर्हति साधुवादम् ॥
२०
त्यक्ता नहि स्वगुरवस्त्यजता पि तेन त्यक्तास्तु तेन सुतरां न जहाति यस्तु । निश्चिन्वते हि विबुधाः सकलं फलेन जानन्ति धीरपुरुषाः परमार्थमेतम् ॥
२१
प्राप्तौषधः प्रतिनिवृत्त्य पितॄन् स दद्यादेवं च रोगविगमात् किल जीवयेत्तान् । यद्यद् भवेज्जगति सम्भवकोटिशुद्धं तत्कर्तुमर्हति नरो निजशक्तिसारम् ॥
२२
मात्रादियुङ नरवरोऽथ भवाटवीरथः सच्छुक्लपाक्षिकतया दृढधर्मरागः । आदातुमिच्छति परं श्रमणीयधर्म मिथ्यात्वमूढपरिवारजनावरुद्धः ॥
२३
आलोचयेदिदमसौ- “स्वजना ममैते कर्मोग्ररोगविकला न विबोधयोग्याः । अप्राप्तबीजपुरुषेण न साधनीयो रोगो ह्ययं परमनिर्मलबोधिसाध्यः ॥
२४
,
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org