SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अनुवादः - मुनिधर्मकीर्तिविजयः झेनकवेः एषा पङ्क्तिः"रन्ध्रहीना वेणुः तद्वादनमतिकठिनम्" रन्ध्रहीनवेणोः वादनं न कठिनमेव , अपि त्वशक्यमस्ति । "अस्त्यस्मिन् जगति मनोज्ञस्य संगीतस्य प्रसारस्य सामर्थ्यमस्यां वेणौ"इति तात्पर्यमेतत्पङ्क्तेः। "तवेण्वाः रिक्तभागे प्रतिनियतान्तरे छिद्राणि तथा च पिहितस्य द्वारस्य वातायनस्य चोद्घाटनम्"एतदेवाऽत्राऽऽवश्यकम् । केवलमत्र तत्र कृतैः छिद्रैः संगीतस्य मधुरसुरावलिः प्रसरति । किन्तु तच्छ्रवणार्थं निरोधनीयो बहिःस्थितः कोलाहलः, सर्वतो मौनं धरणीयम् , तावन्मानं कर्तव्यं यावत् निःशब्दोऽपि शब्दः श्रूयेत।। ___ अस्तित्वस्य स्वकीयः प्रशस्तः आरावोऽस्ति । स्वकीयं संगीतमप्यस्ति । तस्य निरन्तरं लयबद्धानि आन्दोलनानि सर्वत्र प्रवहन्त्येव । यदि चेत्तदान्दोलनग्रहणस्योत्सुकता तर्हि एतत्परमं पवित्रं संगीतमानन्दोदधौ निमज्जयिष्यति। ततो बन्धो! चल चल वयं सर्वेऽप्येतन्मधुरस्य संगीतस्याऽनुभूत्यर्थं प्रयाणं कुर्याम । - 0 ९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy