________________
श्रीअभिनन्दनदेववन्दना - ४
चैत्यवन्दनम्
अभिनन्दन ! चन्दनसरस - शीतलवाणिविलास ! । नन्दनवनसुमनोव्रजैः पूजित ! पुण्योल्लास ! । संवरनन्दन ! वन्दनां, तव चरणे सृजताम् । सङ्क्रन्दनपदसम्पदाऽपि, सुलभा भवति सताम् सिद्धार्थासुत! पुरवरा - योध्यानृप ! सिद्धार्थ ! । मधुरं धर मे शिवफलं कपिलाञ्छन ! शुभसार्थ !
Jain Education International
स्तवनम्
राग - आशाउरि
'जिन तव नयनयुगलमतिहारि ;
निरवधिसुषमाजितसकलोपम - ममृतहूदोपममविकारि । जिन तव... यच्छोभानिर्जितमथ कमलं, तपस्तपस्यति श्रितवारि । चनतो हरिणस्तव वदनरिपु - मिन्दुं श्रितवान् खेचारी सहजाञ्जनमञ्जुलमेतत् खलु, खञ्जनमदभञ्जनकारि । तेनोच्छिन्नछविश्च चकोरो, भक्षत्यग्निं दुःखभारी मीनयुगलमिव तरलं मधुकर - समश्यामलताराहारि । अस्य सुभगतां कथये कियतीं, मुग्धा सकलामरनारी
८
॥१॥
For Private & Personal Use Only
રા
॥१॥ जिन तव ...
॥२॥ जिन तव ....
॥३॥ जिन तव ...
www.jainelibrary.org