________________
श्रीश्रेयांसदेववन्दना-११
चैत्यवन्दनम् श्रीश्रेयांसजिनेश्वरः श्रेयःशतशाली । श्रेयांसि मम वर्द्धतां, निःश्रेयसमाली ॥१॥ विष्णुनरेश्वरनन्दनो, विष्णुश्रीतनुजातः । सिंहपुरीस्वामी सदा, सृजतां सुखमश्रान्तः ॥२॥ खड्गिलक्ष्मलक्षिततनो ! प्रतनूकुरु मम कर्म । शर्मधुरन्धर ! मम कृते, शिवपदमविचलधर्म !॥३॥
स्तवनम्
राग - आशाउरि जिनवर ! सततं त्वं सुखदायी, श्रीश्रेयांसजिनेश्वर ! सेवे, त्वामहमनिशममायी ॥॥ जिनवर.... तव नामस्मरणं पीयूषं, विस्मरणं विषतुल्यम्। पावननामरमरणं सुधया, पूरयति श्रुतिकुल्यम् ॥२॥ जिनवर.... तव दिव्यध्यानं श्रेयांसि, सकलानीहाऽऽनयति । अश्रेयांसि परममहिम्ना, दूरे दूरे नयति ॥३॥ जिनवर.... शुद्धं तव दर्शनमाप्तं यै - विश्वेऽपूर्वनिधानम् । दुरितं दलितं मिलितं तेषां, निजस्वपसन्धानम् ॥४॥ जिनवर....
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org