________________
वाचकानां प्रतिभावः
प्रणामाञ्जलिपुरःसरं श्रीविजयशीलचन्द्रसूरीणां विनिवेदनमिदम्सैषाऽष्टमी कल्पतरोर्नवीना शाखा वनं नन्दयति प्रकामम् ।। कामं कृतीनां कृतिनां पलाशैः पुष्पैः फलैरुत्सवमावहन्ती ॥१ माणिक्य-शीलेन्दुयशो-ऽभिराजराजेन्द्रपीयूषमुनित्रयाणाम् । काव्यामृतस्यन्दिविमुग्धवाक्यान्युद्गीतशीलान्यनुबोभवीमि ॥२ सद्यः परनिर्वृति परमानन्दसन्दोहावगाहम्।। | प्रतिपदं प्रपद्य दीप्तं चेतो वाणीरमणाभिलाषिणः ॥३. मर्मनर्मशर्मधर्मवर्माण्यालोच्य कल्पतरोर्महसः । प्लावितोऽहं तु प्रीत्याऽमन्दाकिन्या पान्थोऽप्यपरतन्त्रः ॥४ दिदृक्षां बिभर्मि भवतां पुण्यारण्ये देशे मुनिसेव्ये । नन्दयते यत्र गहनं कल्पतरुस्तरुणैः कुड्मलैः ।।५ मुनिमनसां प्रतिस्पन्दः संस्कृतभारती जेजीयतेऽवनौ । अद्वयीकृत्य राष्ट्र कामं वसुधां कुटुम्बीकरोतु ॐ ॥६
प्रश्रयविनतस्य श्रीसुरेन्द्रमोहनमिश्रस्य कुरुक्षेत्रविश्वविद्यालयाध्यापकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org