SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ 888888888 संस्कृतभाषाया: प्रचारः प्रसारो वा न केवलं भाषां विषयीकरोति । संस्कृतवाङ्मये रक्षिताया अस्माकमार्यसंस्कारपरम्परायाः पुनरुज्जीवनं भवतु इत्यस्ति मुख्य आशयः । अद्य या विडम्बना: करुणान्तिकाश्च भारतवर्षमनुभवति ततस्तस्योद्धारस्येदमभियानमस्ति । अन्यस्या आङ्ग्लादिकाया भाषाया विरोधो वा निषेधो वाऽत्र नास्त्येव । किन्तु स्वसंस्कृतेर्हानमामन्त्र्याऽन्यस्य कस्याऽप्यादरो नार्हति । मातरमुपेक्ष्य परस्या आदरस्य नैषा संस्कृतिः । किन्तु मातरं सर्वोपरित्वेन संस्थाप्य तस्या गौरवं यथा स्यात्तथाऽन्येषामादरस्येयं संस्कृतिः । आर्यसंस्कृतिस्त्वस्माकं माताऽस्ति, नाऽन्या । संस्कृते रक्षणार्थं संवर्द्धनार्थं च संस्कृतस्य रक्षणं संवर्धनं चाऽऽवश्यकम् । तदर्थं च तस्याः प्रचारः प्रसारो वाऽप्यावश्यकः । अत्र दक्षिणदेशे संस्कृतप्रचारो जनेषु च तद्रुचिः सन्तोषप्रदे दृश्येते । अत्र संस्कृतनाटका अप्यायोज्यन्ते । तत्र च प्रबुद्धा जना विद्यार्थिनश्चाऽपि रसपूर्वकं भागं वहन्ति, तेषामानन्दं चाऽप्यनुभवन्ति । एष एतादृशश्च संस्कृतप्रचारः सार्वत्रिको भूयात् । तद्द्द्वारा चाऽस्मिन् देशे स्वकीयाया उज्ज्वलाया उन्नतायाश्च संस्कृतेर्गौरवस्य पुनरुज्जीवनं भूयात् । येन सर्वेऽपि स्वपरहितचिन्तका मानवीयगुणयुक्ताः सत्त्वशीलाश्च भूयासुरित्याशास्महे । कीर्तित्रयी वि.सं. २०५९ फाल्गुनशुक्ला पञ्चमी बेङ्गलूर: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy