________________
BEVRAWAWINWIN
68052
प्रास्ताविकम् ॥
"शनैः पन्थाः शनैः कन्था" इति न्यायेन शनैः शनैः प्रचलति नन्दनवनकल्पतरोः प्रकाशनकार्यम् । 'प्रचलति'-इत्येवाऽस्त्यत्र समाश्वासः । अत्र प्रकाशने - अस्माकं ज्ञानवृद्धिर्भवतु, संस्कृतभाषायाः संस्कृतवाङ्मयस्य चाऽऽवश्यकत्वं गौरवं तथा तां प्रति रुचिश्च जनमानसे पुनः स्थापिता भवन्तु - इत्याशयोऽस्ति । ____ आर्यसंस्कृतेः संस्काराणां च रक्षणार्थं पूर्वतनैर्महापुरुषैः सङ्घर्षाः कृताः, सहना कृता, स्वकीयं महत्त्वं गौणं कृत्वा संस्कृतेर्महत्त्वमेव पुरस्कृतम्, तदर्थं च प्राणा अपि प्रत्यर्पिताः । किं किं न कृतं तैः? तथाऽपि किमस्ति कारणं येन संस्काराणां गौरवं तेजः सत्त्वं च निर्वाणकालप्राप्तप्रदीपवदद्य सततं मन्दतामुपगच्छन्ति ? किमर्थं संस्काराणां दारिद्यमेव सर्वत्राऽनुभूयते? केन कारणेन चिरञ्जीविन एते संस्कारा अद्य प्राणसङ्कटे इव पतिताः प्रतिभान्ति ? पाश्चात्यानां संस्कृतेः शनैः शनैरपि सततं पादप्रसारो दृश्यतेऽनुभूयते
चाऽपि । वयं स्वकीयां स्वतन्त्रां विचारसरणिं त्यक्तवन्तः स्मः । परेषां चक्षुामेव प्रायो - वयं पश्यामः । दृष्टिरप्यस्माकं तात्कालिक्येव न तु दीर्घकालिकी। आवरणलुब्धा वयं तदन्तःस्थसत्त्वं न परीक्षामहे।
कथं सञ्जातमेतत्सर्वम् ? मुख्यमत्र कारणं त्वेकं प्रतिभाति यद् - अस्माकमार्य - 9 संस्काराणां संस्कृतेश्चोज्ज्वलां मूलभूतां परम्परां वहतः संस्कृतवाङ्मयतः प्रजाः प्रजानायकाश्च दूरं गतवन्तः सन्ति । अत एव च सत्यमजानाना वयं लुब्धा गौरवशून्याश्च
भूत्वा यत्र तत्राऽटामः । SURGURUBURBULU
96UBE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org