________________
डॉ.रूपनारायणपाण्डेयः एस्-२/३३०, राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः उ. प्र. २११००२
दि. ११-११-२००२
वाचकानां प्रतिभावः
मान्याः, सादरं प्रणामाः ।
'नन्दनवनकल्पतरोः' अष्टमोऽङ्कोऽधिगतः । अङ्केऽस्मिन् स्तोत्राणि नितरां रम्याणि सन्ति । श्रीमतो विजयशीलचन्द्रसूरेः 'अलङ्कारनेमिः' गुरुवर्यस्य गौरवेण साकं रचनाकारस्य । कवित्वक्षमता प्रदर्शयति । अभिराजराजेन्द्रमिश्रस्य 'मनो निबोध', डॉ. आचार्यरामकिशोरमिश्रस्य 'लोके कापुरुषः स उच्यते', श्रीएस्. जगन्नाथस्य 'वास्तवम्' च नितरां हृदयं प्रसादयति । मुनिरत्नकीर्तिविजयस्य 'चिन्तनधारा' आतङ्कवादस्य साम्प्रदायिकोन्मादस्य पापाचारस्य च समाधानस्य एकं नूतनं पन्थानं प्रदर्शयति । क्षमया कस्य हृदयं जेतुं न शक्यते ! अनुवादभागे विविधा अनुवादा भाषासौहार्द संवर्धयन्ति । अनेन संस्कृतभाषायाः ग्रहणशक्तिः संवर्धते । संस्कृतसंवर्धनाय विविधासु भारतीयभाषासु संस्कृतस्य या उत्कृष्टरचनाः विराजन्ते, तासां कमनीयं संस्कृतरूपान्तरमतितरामपेक्ष्यते । क्षेत्रेऽस्मिन् पत्रिकायाः प्रयन्ताः श्लाघनीयाः सन्ति । जयत संस्कृतंसंस्कृतिश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org