________________
एतच्छ्रुत्वा चण्डायाः प्रातिवेश्मिकी चपला नाम काचित् स्त्री यथाकथमपि चण्डायाः कुक्कुटभक्षणवृत्तं ज्ञात्वा धनलोभेन त्रपुकं कथितवती यत् – चण्डयैव स कुक्कुटो भक्षितोऽस्ति । अत्र कः प्रत्ययः? इति त्रपुकेन पृष्टे, चण्डामुखेनैवैतत् कथनं श्रावयिष्यामि - इति प्रतिज्ञातं चपलया । ततः सा तं स्वगृहं नीत्वा जवनिकान्तः स्थापितवती । तदनु कपटस्नेहं प्रदर्श्य चण्डां निजगृहमाहूयाऽकथयत् - हले चण्डे ! तस्य कुक्कुटस्य वृतान्तं मूलतोऽपि मां श्रावय । तच्छ्रोतुं हि महत् कुतूहलं मम । साऽपि चाऽज्ञातकपटा तत्कथनमारब्धवती । यावत् च स कुक्कुटो मया भक्षित - इति सा कथितवती तावत् चपलया हस्तस्थेन दण्डेन जवनिकोपरि टात्कृतम् । त्रपुकं च ज्ञापयितुं कथितमपि - यत् - अयि जवनिके ! शृणोषि वा ? अनया चण्डयैव भक्षितः स कुक्कुट इति । एतद् दृष्ट्वा विचक्षणया चण्डया चिन्नितं यत् - नूनमेषा वञ्चकी त्रपुकं ग्रामरक्षकमत्र स्थापियत्वा मां कुक्कुटस्वरूपं पृष्टवती । अतोऽधुना यथाऽयं मद्भणितमलीकं जानीयात् तथा करोमीति । ततः प्रत्युत्पन्नमत्या तया कथितं यद - एतावतैवाऽहं जागृताऽभवदिति ।
चपलाऽपृच्छत् - ननु जागृताऽहमित्यस्य कोऽर्थः खलु ? तयोदितं - सखि ! मया हि स्वप्ने एव दृष्टोऽयं वृत्तान्तो न पुनः सत्यम् । एतद्वचनं श्रुत्वा चपला विलक्षा जाता । तत्समीहितं च व्यनश्यत् ।
इति कथां समाप्याऽऽचार्यभगवता कथितं यदयं [पनयो मन्त्रिन् ! यथा त्रपुक-टात्कृतेन कदाचित् जागरणं सम्भवेत् एवमेव प्रव्रज्यां विनाऽपि जीवानां मोक्षः कदाचिदेव सम्भवेत् । न पुनः सर्वदा। यतो ये सिद्धा ये सेत्स्यन्ति ये च सिद्ध्यन्ति प्रायस्तेषां सर्वेषामपि चारित्रमेवैकं शुभभावनानिमित्तमस्ति न पुनरन्यत् किञ्चित् ।
देशनामिमां श्रुत्वा संविग्नमानसौ द्वावपि भ्रातरौ प्रतिबुद्धौ । द्वाभ्यामपि मनस्येव निश्चितं यदहं चारित्रं ग्रहीष्ये । अतो गृहं गत्वा जयवर्मनरेन्द्रेण लघुबन्धवे कथितं- भ्रातः ! वत्स ! इदानीं वंशक्रमागतं राज्यमेतत् त्वं प्रतिपद्यस्व प्रतिपालय च । गुरुमुखात्परिणतिविरसं विषायितं च विषयसुखं श्रुत्वा तत्र विरक्तमानसोऽहं कर्मगिरिदलव्रजायितां प्रव्रज्यामेवाऽऽ श्रयिष्यामि ।
एतन्निशम्य युवराजेनाऽपि प्रत्युक्तं - ज्येष्ठ ! दुर्वारदुःखविसरसंभृतात् चारकायिताच्च
१११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org