________________
जन्मजरामरणसमुल्लसत्कल्लोलदुर्लङ्घ, क्रोधवाडवाग्निदुर्गम, मोहमहावर्तभीषणस्वरूपं, मानगिरिदुरवगाहं, मायाविशालवल्लीपरिनद्धं, घनमूर्छामत्स्यालिसङ्कलं, पापपङ्कसम्भृतं, रागोरगसंरुद्धं, विविधामयमकरदुष्प्रेक्ष्यम्, अनवरतपतन्महापत्तिसङ्कीर्णं, दुर्धरविषयपिपासोच्छलद्वेलाप्रसरविषमं भवसमुद्रमिमं ती| यदि मोक्षपरतीरमुपलब्धुं वाञ्छथ तर्हि प्रवरगुणसन्दोहकलितं प्रवज्याप्रवहणमारुहत ।" इति ।
एतच्छ्रुत्वा सुमतिमन्त्रिणा पृष्टं - प्रभो ! ननु प्रवज्यैव जीवानां मोक्षलाभहेतुरिति नैकान्तः । यतो भगवती मरुदेवी तु अगृहीतचारित्राऽपि केवलं भावनाभावितान्तःकरणैव निर्वाणपदवीं सम्प्राप्ता । अतः शुभभावनैव गुरु कर्मक्षयनिमित्तम् न तु केवलं चारित्रम् । - तदा गुरुभिः कथितः स यत्- भोः ! अनेकेषु जन्मसु कृतसुकृतयोग एव सम्यगनुचीर्णचारित्राणां क्रमशः शुभभावनारूपेण परिणमति । सैव च शुभभावना गुरु कर्मक्षयनिमित्तं भवति । यत् पुनरकृतव्रताया एव मरुदेव्या भावना जाता सा तु त्रपुक-टात्कृतेन जागरणतुल्या। _ मन्त्री पृच्छति स्म- भगवान् ! किं पुनस्तत् त्रपुक - टात्कृतेन जागरणम् तदा गुरुणोक्तं भोः ! तत्परामर्शस्तु कथानकेनैवावबुध्येताऽऽतः शृणु तत्कथानकम्___ महावटनाम्नि ग्रामे वसन्तपालाभिधष्ठक्कुर आसीत् तथा त्रपुको नाम ग्रामरक्षको नित्यं ग्रामं रक्षति स्म । अथ तस्य व सन्तपालस्याऽत्यन्तं प्रियः कुक्कुट एक आसीत् यस्य पद्मरागमयीव रकतवर्णा शिखा, जात्यकाञ्चचनघटितमिव पिशङ्गं चञ्चुपुटं, घुसृणविलिप्तमिव पिञ्जरं चरणयुग्मं तथा विविधरत्नखचिता इव चित्रवर्णा पिच्छाः शोभन्ते स्म । स ठकुरो नित्यं तं ताम्रचूडं स्वदृष्टिगोचरमेव रक्षति स्म तेन विना च क्षणमपि निर्वृतिं न लभते स्म ।
तस्य गृहस्य समीप एव एका चण्डा नाम स्त्री अवसत् । अथैकदा गर्भवत्यास्तस्याः कुक्कुट- मांसभक्षणस्य दोहदो जातः । ग्रामे च तत्र नाऽन्यः कोऽपि कुक्कुट आसीत् । अतस्तया कथमपि स ग्रामाधिपसत्कः कुक्कुटो हृत्वा हत्वा च भक्षितः । इतो वसन्तपालोऽपि तं ताम्रचूडमदृष्ट्वाऽतीव व्याकुलो जातः । तेन च ग्रामरक्षकस्त्रपुक आहूय कथमपि तं कुक्कुटं शोद्धमादिष्टः । स तु समग्रेऽपि ग्रामे बहुशोधनानन्तरमपि तत्प्रवृत्तिमलभमानो घोषणां कृतवान् यत् यः कोऽपि मां कुक्कुटशुद्धि ज्ञापयिष्यति तस्मै अहं विंशति दीनाराणां दातेति ।
११०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org