________________
श्रीपद्मप्रभदेववन्दना - ६
॥१॥
चैत्यवन्दनम् पद्मप्रभ ! पद्माप्रभव !, पद्माङ्कितपदपद्म ! । पद्मप्रभतनुकान्तिकान्त ! जय जय निश्छद्म ! कौशाम्बीपुरवरपते ! धरनरपतिकुलहंस ! । देव ! सुसीमाङ्गज ! सदा वन्दे त्वां शुभशंस ! अन्तरवैरिवने, वह्निसमारुणकान्ते !। तव सेवासु धुरन्धरं, मिल मामेकान्ते
॥२॥
રૂા.
स्तवनम्
राग - प्रभु तुज शासन अतिभवं... पद्मप्रभजिनमखिलसमीहित - हितसम्पादनहृदयं रे, हृदयङ्गमवचनं वन्देऽहं, देहममत्वानुदयं रे
॥१॥ पद्मप्रभजिन.... दययोच्छलदन्तरमतिदुर्मद - मदनसुभटजयकारं रे । कारस्कारमिव तापनिवारक!, रथं कुरु सुखसारं रे ॥२॥ पद्मप्रभजिन.... सारसदागममागमगीतं, गीतगुणालङ्कणं रे । रणमध्येऽपि शरणदातारं, तारकमीहे शरणं रे ॥३॥ पद्मप्रभजिन....
Ya
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org