________________
श्रीचन्द्रप्रभदेववन्दना - ८
चैत्यवन्दनम् चन्द्रप्रभ! कर्पूरपूर - विमलधवलकान्तिः । शुक्लध्यानविनिर्मितेव, तव काया भाति ॥१॥ माता यस्य हि लक्ष्मणा, पिता नृपो महसेनः । चन्द्रपुरीनगरीश्वरो, भवतु जिनो महसे नः ॥२॥ कुवलयवलयविभूषणो, यस्याङ्के लसति ।। देवधुरन्धर ! सेवकाय वितर शिवे वसतिम् ॥३॥
स्तवनम्
राग- शीतल जिनपति ललित त्रिभंगी.... चन्द्रप्रभजिन ! तव दर्शनतो, दर्शनशुद्धिर्जाता रे । ममता माया दूरे याता, निकटे समताऽऽयाता रे ॥१॥ चन्द्रप्रभ.... शुचितां रुचितां मृदुतां हृदिता - मार्जवभावसमेतां रे । आनीयान्तरनिलये कलये, क्षमया रमयोपेतां रे ॥२॥ चन्द्रप्रभ.... आनन्दोदधिजलकलोलै;, सिक्तं चेतोरङ्गं रे । शान्तः कुटिलकषायोत्तापो, जातं शैत्यमभङ्गं रे ॥३॥ चन्द्रप्रभ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org