________________
अभ्रचुम्बिनि शैलशिखरे, त्वं समारुह्य स्थितः । मादृशां निर्बलजनानां, दूरभूतो दृष्टितः ॥
तदपि तव पृष्टिं विमोक्ष्ये नैव जगदाधार ! रे ॥ नेमिजिनवर ॥१॥ आपदो बहवीः सहित्वा - ऽद्यागतस्तव सन्निधौ । अथ कृपणता नैव कार्या, नाथ ! मयि करुणाविधौ ॥
दिव्यकरणादृष्टिमेकां, कुरु करुणाकूपार ! रे ॥ नेमिजिनवर ॥५॥ स्वामी मया निर्द्धारितस्त्वं, निखिलजगतः शासकः । नाथ ! नैवोपेक्षिणीयो, भवच्चरणोपासकः ॥
सेवकाभिधया समाह्वय, सत्वरं सुखकार ! रे ॥ नेमिजिनवर ॥६॥ मौनतो यद्विप्रलुब्धं, मुग्धगोपीमण्डलम् ।
नैव तद्वन्मयि चलिष्यति, देव ! तव मौनच्छलम् ॥ एकवारं सेहतो मामालापय हतभार ! रे ॥ सकलमङ्गलपरमकारण- मङ्घ्रियुगलं ते मुदा । अमरतरुवरपुष्पगुच्छै - र्बन्धुरं धरतो हृदा ॥
भवभवे भवतात्तवैच, ध्यानमिह भवतार ! रे ॥ नेमिजिनवर ॥८॥ इत्थं स्तुतो जिनवरेन्द्रशिवातनूजः, श्रीरैवताचलगिरीन्द्रकिरीटकल्पः । राजीमतीहृदयसुन्दरहीरहारो, हन्यादधं परमयोगिधुरन्धरो नः usu
Jain Education International
नेमिजिनवर ॥७॥
स्तुतिः
जयति नीरदनीलतनुद्युतिर्युवतिसङ्गभिदाकरणादृतिः । विशदसंवरशालिशिवासुतः,
परमया रमया त्वरयाऽऽदृतः ॥२२॥
४५
For Private & Personal Use Only
www.jainelibrary.org