________________
RECE
श्रीअरिष्टनेमिदेववन्दना - २२
चैत्यवन्दनम् समुद्रविजयनूपनन्दनं, वृन्दारकवन्द्यम् । वन्देऽमन्दानन्दतो, विबुधैरभिनन्द्यम् ॥१॥ अशिवोपद्रववारणः, शैवेयः शुभदः । शौरीपुरशोभामणिः, संहरतां विपदः ॥२॥ शङ्खाङ्कितघनकान्तिकाय ! त्रिभुवनमङ्गलधाम! । रिष्टधुरं धर देव ! मे- ऽरिष्टनेमिशुभनाम !॥३॥
स्तवनम्
राग- कव्वालि नेमिजिनवर नेमिजिनवर ! रैवतगिरिशृङ्गार ! रे ।
तावकीने पादपद्मे, देहि शरणमुदार ! रे ॥ प्राणनाथ ! प्रचुरपुण्यैः, प्राप्तवाँस्तव दर्शनम् । चन्दनादपि शीतलं ते, पद्माचरणस्पर्शनम् ॥
संसृतिभ्रमणोत्थतापं, शामय समतागार ! रे ॥नेमिजिनवर ॥१॥ नाथ ! पातकिना मया हा, सर्वथा त्वमुपेक्षितः । दृष्टिमार्गसमागतोऽपि प्रेमतो न निरीक्षितः ॥
येनाहं बहुदुःखवृन्दै- दलितो दीनोद्धार ! रे ॥ नेमिजिनवर ॥२॥ घोरभवचक्रेऽटतो मे- ऽनन्तकालो निर्गतः । किन्तु नैव कदापि मे त्वं श्रवणमार्गमुपागतः ॥
भ्रमणमद्यावधि न रुद्धं, तेन हतसंसार ! रे । नेमिजिनवर ॥३॥
४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org