SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ _ (वासन्तिका) भू-रङ्ग-मानुषनटैरभिनीयमानं संसारनाट्यमवलोकयितुं दिनादौ । आरुह्य शक्रहरिदासनमंशुमाली लब्ध्या महारसिकतां रिमतमातनोति ॥ (ततः प्रविशति भट:) (बेगडे रागेण भामिनीषट्पदीछन्दसा गायति ।) कलितबहुलकलाविलासे ! ललितनाट्योत्सवनिवासे ! मिलितबन्धुरभावभङ्गिविशारदे ! बाले ! । कलयितुं त्वां रमणि ! नृत्यं तुलनया परिवर्जितं बुधवलयनिबिडायां सभायां नृपतिराह्वयते ॥ नर्तकी- (आत्मगतं) अये, आर्यकौटिल्यस्येदम् आह्वानं न पुनर्देवस्य चन्द्रगुप्तस्य । नगरे वर्तमानाः परिस्थितीः संस्थायां सूचयितुं पूर्वमेव नियुक्ताऽस्मि । परन्तु मया ये विषयाः सूचितास्तत्र किञ्चिदिवाश्रद्दधानस्तत्रभवान् कौटिल्यः प्रत्यक्षमेव नृत्यप्रयोगदर्शनव्याजेन तान् । सर्वान् द्रष्टकामोऽस्ति । मयाऽपि देवस्य चन्द्रगुप्तस्य पुरस्तात् नृत्यप्रयोगव्याजेन नगरे वर्तमानाः परिस्थितय आर्यकौटिल्याय सूच्यन्ते । तत्रभवान् मया सूचयिष्यमाणेषु प्रसंगेषु कांश्चन विशेषान् विस्पष्टं ज्ञास्यत्येव स्वीयया अनितरसाधारण्या मेधया। (प्रकाशं) अयि भोः भट, विज्ञाप्यतां तावद् देवश्चन्द्रगुप्तो यदनुगृहीताऽस्म्यहमनेन मयि पतितेन देवकटाक्षेण । तत्रभवतो देवस्याज्ञानुवर्तिनी इयं सेविका देवस्य सेवां करिष्यतीति ।। भटः- तथा (इति निष्क्रान्तः) नर्तकी- (आत्मगतं) अधुना शिष्या अभ्यासार्थं प्रेरणीयाः । ICES & RESE CONCEPSC A ७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy