________________
नृत्याभ्यासः [शङ्कराभरणरागेण त्रिपदीछन्दसा च गायति ।] अभिनेयं नृत्यं नः प्रभुवाचा स्तुतियोग्यं सभया च द्रवतां रसपाकै (:) रसिकानाम् अभितश्च वातं विबुधानाम् ॥ दोषाणामल्पत्वेऽप्येषा नर्तनशैली तोषीयं स्फुरणं न करोति प्राज्ञानां वेषैर्न प्रीतिं दधते ये ॥ भूयात् परमा सिद्धिः स्तूयादवनीपालो देयात् संदोहोडमात्यानाम् अस्मभ्यं स्वीयानि श्लाघावचनानि ॥
नृत्यविषयक उपदेशः [ भैरवी] (प.) रीतिरेषा समीचीना प्रीतितो भावुकाराधना । (अ.प.) नटनं नालं बहिरतिरम्यं स्फुटति मनसि यदि तदवाग्गम्यम् । (चरणः) जनगणहृदये प्रमुदमुदारां जनयेदधुना साधु कलेयम् । सर्वरिमन रसिके कुरुत परं गर्वं नाट्यविलोकनजम् । नरपतिकरुणापाङ्गनिपातं वरयत वर्षितकाञ्चनजातम् ॥
प्रस्थानम् [ कुरञ्जी] सुन्दरं रसभरं प्राज्यवरगुणसान्द्र ! वन्दनं करवाम राजाधिराजेन्द्र ! वयमिमे स्मो नाट्यगीतादिपटुतमाः स्वयमात्तशारदापादार्चनक्षमाः । सहृदयान् सेवितुं नियतेषु समयेषु
Ice CC C CGGES & BEST
७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org