________________
Jain Education International
श्रीअरनाथदेववन्दना - १८
चैत्यवन्दनम्
अरजिनवर ! सुरनरनिकर प्रणत! सुदर्शननन्द ! । भरतेश्वर ! गजपुरनगर - नरवर ! शिवतरुकन्द ! ॥१॥ नन्द्यावर्ताङ्किततनो!, देवीजननीजात ! । जय जय विरतिरसरसिक !, घातितघातिव्रात ! ॥२॥ अरतिरहितमरुजं जरा - मरणहरणमभयम् । सर्वज्ञौघधुरन्धरं, वन्दे तं सदयम्
-
स्तवनम्
राग - अनंतवीरज अरिहंत... श्रीअरनाथविभो ! मम विज्ञप्तिं शृणु
कृपया मम विषयाशां स्वामिन् ! संवृणु । मृगतृष्णासमसांसारिक सुखलालसः
ગો
तृष्णातरलितचित्तस्तव वचनालसः ॥१॥ भ्रान्तो घोरभवान्धतमसि हतचेतनः
मोहासवमत्तो विस्मृतनिजकेतनः । क्रान्तो विषयकषायादिक रिपुपीडितः तदपि न मुञ्चे भवममतामव्रीडितः ॥२॥
३६
For Private & Personal Use Only
www.jainelibrary.org