________________
20RA
शान्तस्त्वत्समदेवो भुवने नेक्षितः
विश्रान्तस्तव पादकजे भुवनेशितः ! । देव ! दयाकर ! दृष्टिं देहि दयाञ्चितां
जडतां जहि जिन ! मे बहुजन्मनि सञ्चिताम् ॥३॥ उन्मुद्रय मम दृष्टिं दिव्यसुधाजनैः ।
त्वयि दृष्टे सुप्रसन्ने सूतं परञ्जनैः । “भर्ता त्वं मम, भृत्योऽहं तव” मानय !
कृपणे कलुषितचित्ते करुणामानय ॥४॥ तव करुणामृतवारिधरेणाऽऽषिञ्चिते,
नष्टे मोहमहावरणे भवसञ्चिते । तव रूपे मम रूपं देव ! मिलिष्यति
धर्मधुरन्धसेवनमेवं सेत्स्यति ॥५॥
स्तुतिः नृपसुदर्शनसुन्दरनन्दन!, सुरसमूहमनोमतनन्दन !। तव पदाम्बुजयामलसङ्गिनः, भुवनपावन! पाहि सदाङ्गिनः ॥१८॥
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org