________________
वन्दितुकामस्तत्राऽऽगतः । अथ सोऽपि विजयवर्ममुनिः सर्वेभ्यस्तेभ्यो देशनारूपेणधर्माराधनेन स्वर्गापर्वग- सौख्यपरम्पराप्राप्तिं तत्र च विघ्नभूतस्य विषयकषायादिसेवनस्य परिणामदारुणत्वं देशनारूपेणोपवर्णितवान् । तत् सर्वं श्रुत्वाऽत्यन्तं संविग्नमानसया जयावलीदेव्या नियम एको गृहीतो यथा - इह स्थितस्य मुनेरेतस्य दर्शनं विना नाऽन्नपानग्रहणं कार्यमिति । तथा च नित्यमेव मुनेः पर्युपासनापरायास्तस्या दिनानि व्ययन्ति ।
अन्यदा देशस्योपरिवासे महावृष्टिर्जाता । एतेनोपरिष्टाद् वहन्ती नदी ह्यापूरयुक्ताऽभवत् । सा च नदी नगरोद्यानयोर्मध्ये जलातिरेकत्वात् महावेगेन प्रवहन्ती सर्वथा दुस्तरा सञ्जाता । अत: कारणात् सा जयावली देव्यपि मुनिवन्दनाय गन्तुं न शक्नोति स्म । तथा च गृहीतनियमप्रतिबद्धा साऽन्नजलादिकमपि न जगृहे । एतेन म्लानवदनां तां दृष्ट्वा राजा पृष्टवान् तत्कारणम् । यत् देवि ! किमिति त्वं म्लाना दृश्यसे ? तयाऽप्युक्तं - मयाऽद्य मुनिवन्दननियमो न पालितो नद्यां पूरागमनात् । अतोऽद्य भोजनत्यागादहं म्लानाऽभवमिति ।
राज्ञोक्तं - देवि ! न ज्ञायते कदैषा नदी विरंस्यति इति । त्वं पुनः सुकुमारा तो भोजनं विना बहु कष्टं प्राप्स्यसि । अत एकं कार्यं कुरु - नदीसमीपं गत्वा नद्यै कथयेदं यद् - यदि मद्देवरदीक्षाग्रहणप्रभृति मे भर्ता मया सह विषयासेवनं विहितं तर्हि हे भगवति ! त्वं मा विरम, यदि च न विहितं तर्हि मे मार्गं ददातु । इति ।
एतच्छ्रुत्वा सोपहासं तयोक्तं - भोः स्वामिन्! मया सह चिराय विषयसौख्यं सेवित्वाऽपि ह्येवं वदन् भवान् अचलत्वकलिङ्गगमो द्विज इवाऽत्यन्तं साहसिकोऽस्ति । राज्ञा कथितं देवि ! कुविकल्पान् सर्वथा सन्त्यज्य प्रथमं तत्र गच्छ मद्भणितं च कुरुष्व ।
तयाऽपि पुनः प्रत्युक्तं - आर्यपुत्र ! किमर्थमेवं कृतामपि विषयसेवामपलपसि ? भवान् हि मां शठ इवाऽलीकवचनैः प्रतारयति किन्तुं दिव्यस्वरूपां नदीं प्रतारयितुं कस्य सामर्थ्यमस्ति किल ?
राजा दृढस्वरेण कथितवान् - देवि ! अलमधिकविचारणेन । त्वं मम वचनानुसारं प्रवर्तस्व केवलम् ।
तदा कुपितया देव्याऽप्युक्तं - राजन् ! किमहं ग्रहगृहीता वा ? यतो भवतो विषयसुख
Jain Education International
११३
For Private & Personal Use Only
www.jainelibrary.org