________________
Ke
कौटिल्यवन्दनम्
Jain Education International
[ पञ्चनिमिषपर्यन्तं मृदङ्गध्वनिः, तदनन्तरं नेपथ्ये ]
सदयहृदया: सहृदया: ! स्वागतं वः । भवतां सर्वेषां विदितचरमेव यद् विश्वस्य महतां ) चिन्तनाचारुचेतोवतां समाजे निरतिशयां प्रख्यातिमुपगतः, अनल्पाभिः कल्पनाभिः प्राज्यस्य राष्ट्रदौर्भाग्यदूरीकरणशस्त्रस्य राज्यशास्त्रस्य निर्माता निखिलजनपदसौभाग्यकर्मनिर्माणधर्मा कण्टकमूलोच्छेत्ता कौशल्यवत्स्वान्तस्तत्रभवान् कौटिल्य इति ।
एतच्च प्रसिद्धं यत् कौटिल्यो राजकीयेषु व्यवहारेषु सुतराम् उदासीन एवासीत् । परन्तु न्याय्येन मार्गेण राज्यमलभमानस्य चन्द्रगुप्तस्य विज्ञप्तिमनुलक्ष्य तस्मै राज्यदापनं प्रतिजज्ञे । राज्यदापनानन्तरं न तस्य कर्तव्यभारः समाप्तः । तस्मात् सः मलयकेतोराश्रयं प्राप्य चन्द्रगुप्तपराभवाय प्रयतमानम् अमात्यराक्षसं कथञ्चित् कुसुमपुरम् आनाय्य तं चन्द्रगुप्तमन्त्रिणं कर्तुमीहते, तत्र विविधानि तन्त्राणि प्रयुङ्क्ते, सफलश्च भविष्यति ।
कौटिल्य: स्वनिर्मितेषु राज्यतन्त्रेषु साफल्यवैफल्ये स्पष्टमेव ज्ञातुकामः सन् विविधाभिः दिशाभिः अनेकैश्च जनैः तस्य द्रढिम्ने प्रयतते । अर्थशास्त्राध्ययनेनेदं स्पष्टीभवति यत् कौटिल्यः सर्वत्र गूढचराणां व्यूहमेव निर्मापयामास । नर्तकीनामपि तत्र भागग्रहणं वर्तते । नर्तकीभिः जनपदानां व्यवहारः सूक्ष्मेक्षिकया परीक्षणीय इति, ज्ञातेषु केषुचिदपि विशेषेषु अधिकारिणो ज्ञापनीया इति कौटिल्यः सूचयति । अमुमंशं मनसि निधाय नृत्यनाटकमिदं रचितम् । अत्र कर्णाटकसंगीते प्रसिद्धा एव रागाः तालगतयश्च समुपात्ताः । कन्नडभाषायाश्छन्दोगतिरपि द्वित्रस्थलेषु आदात्तः। अत्र साफल्यवैफल्ययोः सहृदया एव प्रमाणं भवितुमर्हन्ति ।
७४
एस्. जगन्नाथः 2925, Saraswathipuram. 1st main, 5th cross.
Mysore -570009 Phone : 541687
For Private & Personal Use Only
86
6€
www.jainelibrary.org