________________
-
शक्या नहि प्रतिकृतिः प्रकटं तु पित्रोधर्मः सतां पितृजनेषु परानुकम्पा । पित्रोः परं परिहरन् परितापहेतुं ज्ञातं किलात्र विषये प्रभुवर्धमानः ॥ ३० अन्योपतापविगमेन च सर्वथैवं गुर्वन्तिके भवति निष्क्रमणाय सज्जः । सम्पूजयेज्जिनवरानथ वीतरागान् साधूंश्च शुद्धवसनादिकवस्तुदानात् ॥ ३१ सन्तोषयेत् कृपणकान् विभवानुसारमावश्यकानि च यथाविधि सम्प्रयुज्यात् । लब्ध्वा सुमङ्गलनिमित्तयुतं च कालं प्राप्याधिवासनमथो गुरुपादमूले ॥
३२
स्फूर्जत्प्रमोदरसकञ्चकिताङ्गभागः संशुध्यमानहृदयाध्यवसायशाली । त्यक्त्वा स लौकिकगृहस्थजनाहधर्मान् लोकोत्तरे प्रविशति श्रमणार्हधर्मे ॥
३३
सैषा किल प्रवरमङ्गलकृज्जिनाज्ञा सिद्धयर्थिना बुधजनेन न खण्डनीया । तत्खण्डनं परमनर्थकरं मुमुक्षोरतत्पालनं भवति मङ्गलहेतुरुच्चैः ॥
३४
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org