________________
-
झटिति ततो नैजे मयि जिनवर !, कुरु करुणाक्तकटाक्षम् । येन बलिष्ठीभूय जयेयं, रिपुकूटं विकटाक्षम् ॥ ॥६॥ तारय... त्रिशलानन्दन! जगदानन्दन ! संसारार्णवतीर ! । सेवक स्य तव याचामेकां, पूरय तूर्णं वीर ! ॥ ॥७॥ तारय... भवविधुरं धर मां तव चित्ते, निजसेवकरूपेण । तारक ! पारय करतो धृत्वा, भवजलनिधिमचिरेण ॥ ८॥ तारय... इत्थं स्तुतश्चरमतीर्थपतिः प्रसिद्ध- श्रीजीर्णदुर्गनगरीगिरजागिरीशः । देयादमेयगरिमा वबोधिबीजं सद्धर्मधुर्धरणधुर्य धुरन्धरश्रीः ॥९॥
॥२४॥
स्तुतिः परमसाम्यसुधारसनिर्झरं, चरमतीर्थपतिं नतनिर्जरम् । वरमतं हृदि यो वहते जनः, परमते रमते नहि तन्मनः जिनवराः विजितान्तरवैरिणः, दुरितदुर्णयदोषनिवारिणः । मम भवन्तु जगत्त्रयशासकाः, विकटसंकटसंभवनाशकाः विपुलनिर्मलबोधविधायकं, प्रबलसंशयतामसहायकम् । प्रकटमुक्तिपथं विलसद्विभं, जिनमतं नम तं रविसन्निभम् पदकजं किल यस्तव सेवते, स लभते सपदि श्रुतदेवते ! । बुधधुरन्धरतां सुरसंस्तुते ! कमलकोमलकोशसमद्युते !
॥२५॥
है
॥२६॥
॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org